SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir अथ स्वपुरं प्राप्य सीतया रामः सुखसुवासेत्याइ सप्तसप्ततितमे-गत इत्यादि । रामे परशुरामे । वरुणाय न्यासत्वेनेति शेषः । अप्रमेयाय अदृश्यायेत्यर्थः ।। ॥ विह्वलं परवशम् । अनेन परशुरामेण कृतां परत्वसूचिका स्तुति वरुणाय धनुर्दानं च दशरथो न ज्ञातवानिति गम्यते ॥२॥ चतुरङ्गिणीति “प्रातिपदिकान्तनुम्-" इत्यादिना णत्वम् ॥ ३ ॥ रामस्येत्यादिशोकद्वयमकान्वयम् । रामस्य वचनं श्रुत्वा विह्वलतया अस्पष्टं वचनं श्रुत्वा ॥ गते रामे प्रशान्तात्मा रामो दाशरथिर्धनुः । वरुणायाप्रमेयाय ददौ हस्ते ससायकम् ॥ १॥ अभिवाद्य ततो रामो वसिष्टप्रमुखानृषीन् । पितरं विह्वलं दृष्ट्वा प्रोवाच रघुनन्दनः ॥२॥ जामदग्यो गतो रामः प्रयातु चतुरङ्गिणी। अयोध्याभिमुखी सेना त्वया नाथेन पालिता॥३॥रामस्य वचनं श्रुत्वा राजा दशरथः सुतम्। बाहुभ्यां सम्परिष्वज्य मूर्ध्नि चाघ्राय राघवम् ॥४॥ गतो राम इति श्रुत्वा हृष्टः प्रमुदितो नृपः ॥५॥ पुनर्जातं तदा मेने पुत्रमात्मानमेव च। चोदयामास तां सेनां जगामाशु ततः पुरीम् ॥६॥ पताकाध्वजिनी रम्यांतूयाधुष्टनिनादिताम् । सिक्तराज पथा रम्यां प्रकीर्णकुसुमोत्कराम् ॥७॥ राजप्रवेशसुमुखैः पौरैमङ्गलवादिभिः । सम्पूर्णा प्राविशदाजा जनाधैः | समलंकृताम् ॥८॥ पौरैः प्रत्युद्गतो दूरं द्विजैश्च पुरवासिभिः। पुत्रैरनुगतः श्रीमान श्रीमद्भिश्च महायशाः॥९॥ । गतो राम इति श्रुत्वा । क्रमेण पुनः स्पष्टं श्रुत्वेत्यर्थः। दृष्टः पुलकितः ॥ ५॥६॥ रम्यामिति पुनरुक्तिस्तत्तद्विशेषणकृतरमणीयत्वाभिप्रायेण पताका ध्वजपटः, ध्वजा दण्डः, पताकान्विता ध्वजा अस्यां सन्तीति पताकाध्वजिनीम् । ह्रस्वदीर्घवजभेद इत्यप्याहुः । उदुष्टमिति भाव निष्ठा । तूर्योदोषेण सातनिनादामित्यर्थः ॥७॥ राजप्रवेशेन सुमुखैः विकसन्मुखैः । मङ्गलम् आशीर्वचनं वक्तुं शीलमेषामस्तीति मङ्गलवादिभिः ॥ ८॥९॥ Mगत इति । प्रशान्तात्मा प्रशान्तो गतक्रोधः आत्मा मनो यस्य स तथोक्तः ॥१॥ विहलं परशुरामभयेन धनुर्दानवृत्तान्तस्य मायया तिरोधानमन्यान पति ॥२-४|| गत इति ।हष्टः पुलकितो विस्मितो था॥५॥६॥ पताकाध्वजिनीमिति । पताकाः श्रेणीकृताः क्षुद्रध्वजाः,इतरे पुनर्महावजाः । रम्या स्वभावतो रम्पाम् । सिक्तराज ।' १ पालिता । संदिशस्व महाराज सेनां त्वच्छासने स्क्तिाम् । शासनं कांक्षते सेना पातकालिर्जलं यथा ।। इत्याधिकः पाठः । For Private And Personal Use Only
SR No.020791
Book TitleValmiki Ramayanam Part 01
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages468
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy