________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
SYĀDVĂDAMUKTAVALİ OR JAINAVIŠEŞATARKA
पूर्वाकारपरित्यागोत्तराकारस्य निर्मिती। परिणामश्च कार्यत्वं मृत्स्नायां कलशो यथा ॥ १२॥ उपादानादित्रितयं कारणं सद्भिरिप्यते । कार्यकारणताभावो नोक्तो ग्रन्थस्य गौरवात् ॥ १३ ।।
उत्पत्तौ परतः स्वतश्च परतो ज्ञप्ती प्रमाणं भवेत् प्रत्यक्षं च परोक्षमेतदुभयं मानं जिनेन्द्रागमे । अक्षाधीनतयास्मदादिविदितं स्पष्टं तथा लौकिकम् द्वेधा तत् प्रियपारमार्थिकमिदं द्वेधा पुनः संमतम् ॥ १४ ॥
आद्यं सांव्यवहारिकं पुनरपि द्वेधेन्द्रियातीन्द्रियोत्पन्नत्वाद्वितयं तथापि [च ] चतुर्भेदं यथाऽवग्रहः । ईहावायसुधारणादिभिरिदं जातं पुनस्तद्धितं तत्राद्यं विकलं तथा च सकलं तद्वान् स्मृतस्तीर्थकृत् ।। १५ ।। अवध्यावरणोच्छेदादवधिज्ञानमिष्यते । गुणप्रत्ययमेवाद्यं तद्रूपिद्रव्यगोचरम् ॥ १६ ॥
चारित्रशुद्धिसंजाताद् विशिष्टावरणक्षयात् । यन्मनोद्रव्यपर्यायसाक्षात्कारि निवेदितम् ।। १७ ।।
तथा हि संशिजीवानां मानुषक्षेत्रवत्ति (ति)नाम् । मनःपर्यायविज्ञानं मनःपर्यायसंज्ञिकम् ॥ १८ ॥
14. ab=JSM I. 68ab.
cd: Cf. JSM I. 68cd: अक्षाधीनतयास्मदादि विदितं स्पप्टं द्विधा लौकिकम्।
अन्यत्तत्किल पारमार्थिकमतो नित्यं सतां संमतम् ॥ 15. abc: Cf. JSM I. 69abc:
आद्यं सांव्यवहारिक पुनरपि द्वेधेन्द्रियानिन्द्रियोऽत्पन्नत्वाद्विदितं तथापि हि चतुर्भेदं तथावग्रहः । ईहापायसुधारणाभिरुदितं ज्ञानं हि मत्यात्मकम् d=JSM. I. 69d. 17. Cf. JSM I. 80:
चारित्रशुद्धि संजातविशिष्टावरणक्षयात् । यन्मनो द्रव्यपर्यायालम्बनं विनिवेदितम् ।।
Also read JS p. 19. 18. a: Cf. JSM I. 8la: तद् द्वेघा संज्ञिजीवानाम्
bc=JSM I. 81bc. d: Cf. ISM I. 81d: मनःपर्यवसंज्ञिकम्
For Private And Personal Use Only