________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
SYADVADAMUKTAVALI OR JAINAVISEŞATARKA
उत्पादधाव्यनाशास्ते स्युभिन्नाभिन्नलक्षणात् । परस्परं हि सापेक्षा [ : ] संवेयं त्रिपदी मता ॥ १४ ॥
रहितः स्थितिनाशाभ्यां न चोत्पादस्तु केवलः । उत्पादधाव्यरहितो न नाशः केवलो मतः ॥ १५ ॥
रहितोत्पादनाशाभ्यां नैकका केवला स्थितिः । अन्यथानुपपत्तेश्च दृष्टान्ताः कुर्मरोमवत् ।। १६ ।।
सर्व जीवादिष्ट (ड्) द्रव्यं गुणपर्यायसंयुतम् । अनेकान्तकलाक्रान्तं सिद्धं वस्तु त्रयात्मकम् ॥ १७ ॥
यथा
प्रध्वस्ते कलशे शुशोच तनया मौली समुत्पादिते पुत्रः प्रीतिमवाप कामपि नृपः शिश्राय मध्यस्थताम् ।
पूर्वाकारपरिक्षय स्तदपराकारोदयस्तद्द्वया
वाचक इति स्थितं त्रयमतं (तः ) तत्त्वं तथा प्रत्ययात् ॥ १८ ॥
तथानेकान्ततो वस्तु भावाभावोभयात्मकम् ।
यथा सत्त्वं स्वरूपेण पररूपेण चान्यथा ।। १९ ॥
पटाद्यभावरूपश्चेद् घटोऽयं न भवेत्तदा । घटः पटादिरेव स्यात् तस्मादेष द्वयात्मकः ॥ २० ॥
द्रव्यक्षेत्र कालभावापेक्षयापि घटो यथा । स्वभावेन परभावाद्भिन्नस्तदुभयात्मकः ॥ २१ ॥
अर्थक्रियाकारि तदेव वस्तु
स्वद्रव्यशक्त्या हि भवेत् समर्थम् ।
पर्यायशक्त्या तदिहासमर्थम् सापेक्षमेतद् सहकारिराशेः ।। २२ ।।
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
15
18. =JSM I. 19 wherein d reads तथ्यम् ( for तत्त्वम् ) .
This verse is quoted in the Ratnākarāvatārikā (p. 85) on PNT V. 8 as occurring in पञ्चाशति; breads प्रीतीमुवाह; d reads त्रयमयं In the MSS. b reads कापि च ( for कामपि ) which is difficult to construe. In the light of ISM I.
19 and the reference in Ratnākarāvatārikā, the text is emended as कामपि.
22. In the margin on the right, some word is written. All the letters are not deci - pherable as the edge of the folio is damaged. As it is, the word reads: तक्रांमोदक -- त् त is written in pencil by some one, as the original letter is lost.