________________
Shri Mahavir Jain Aradhana Kendra
14
www.kobatirth.org
SYADVADAMUKTAVALI OR JAINAVISEŞATARKA
सामान्यं द्विविधं तिर्यगूर्ध्वतादिविभेदतः ।
आद्यं साधारणं व्यक्तौ द्वितीयं द्रव्यमेव च ॥ ४ ॥
तिर्यग् (क् ) सामान्यमेवैतद् यथा गोत्वं गवां व्रजे । तल्लक्षणं प्रतिव्यक्ति तुल्या परिणतिस्तथा ॥ ५ ॥
द्रवत्यदुद्रुवत्द्रोष्यत्येवं त्रैकालिकं च यत् । ताँस्तांस्तथैव पर्यायान्तद्द्द्रव्यं जिनशासने ॥ ६ ॥
अवच्छेदक एवायं व्यतिवृत्तििर्ह लक्षणम् । विशेषोऽपि द्विप्रकारो गुणपर्यायभेदतः ॥ ७ ॥
सहोत्पन्ना गुणा द्रव्ये पर्यायाः क्रमभाविनः । पर्येत्युत्पादनाशौ च पर्यायः समुदाहृतः ॥ ८ ॥
पर्यायाणां गुणानां च भेदो नो धर्म्यपेक्षया । स्वरूपापेक्षया भेदः प्रोक्तोऽयं पूर्वपण्डितैः ॥ ९ ॥
स्यादव्ययमनेकान्तद्योतकं सर्वथैव यत् । तदीयवादः स्याद्वादः सदैकान्तनिराश ( स ) कृत् ॥ १० ॥
सर्वं तथान्वयि द्रव्यं नित्यमन्वयदर्शनात् । अनित्यमेतत् पर्यायैः पर्यायानु भवादिदम् ॥ ११ ॥
तथा
अनादिनिधने द्रव्ये स्वपर्यायाः प्रतिक्षणम् । उन्मज्जन्ति निमज्जन्ति जलकल्लोलवज्जले ॥ १२ ॥
एकविंशतिभावाः स्युर्जीवपुद्गलयोर्मताः ।
धर्मादीनां षोडश स्युः काले पञ्चदश स्मृताः ॥ १३ ॥
Acharya Shri Kailassagarsuri Gyanmandir
तुल्या
4. Read JS p. 26: सामान्यं द्विभेदम् - तिर्यगूर्ध्वताभेदात् । प्रतिव्यक्ति परिणतिस्तिर्यक्सामान्यं शबलशाबलेयादिपिण्डेषु गोत्वम् । व्यक्तिं प्रतिगतं पूर्वापरसाधारणपरिणामद्रव्य मूर्ध्वतासामान्यं कटककङ्कणानुगामिकाञ्चनवत् पर्यायपरिगतम् ।
6. JSM I. 11.
The stanza is also quoted under of
in JS (p. 4) wherein the Päda
b is read as: त्रैकालिकं हि यत् । The whole verse appears to be a quotation from some other work.
7,8. Also read JS p. 26, 27.
11. abc-JSM I. 18abc.
d in JSM I. 18 reads : उत्पादव्ययसंगतः
13. This stanza appears as a quotation in JS p. 6.
For Private And Personal Use Only