________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ नेमिजिन-स्तुतिः ('भज ले चम्पकली' इति रागेण गीयते)
नम नम नेमिजिनं नेमिजिनम् ।
अधरीकृतकुत्सितकमनम् ॥ध्र व०॥ द्वाविंशतितममाप्तमनारत-मुत्तममुत्तममान्यम् । कृष्णच्छायं विगतापाय, शङ्खाङ्कितमवदान्यम् । नम० १ ॥ सत्समुद्रविजयप्रजमग्र, तद्वद्धृतिधर्तारम् । शेखरायमाणं हरिवंशेऽखिलभवात्तिहारम् । नम० २ ॥ उग्रसेनतनयां नवभवतः, पत्नोभावमुपेताम् । अनुरक्ता व्यक्तां पतिभक्तां, कथमौज्झत्प्रभुरेताम् । नम० ३ ।। नव्यां भव्यां वा हृदयेशां, प्राप्य नरो वरवेशाम्। पूर्वयोषितं को नहि जह्या-दपि कृतभक्तिविशेषाम् । नम० ४ ॥ तद्वत्प्रभुरपि मुक्तिनवोढा-सङ्गोत्साहितचेताः । किमाश्चर्यममुचद्यदि कान्तां, मोहनृपतिबलजेता । नम० ५ ॥ तं ब्रह्मवतविदितौजस्क, कस्को न स्तुतिमेति । चन्दनमुनिरपि मुकुलितपाणि नेमिनाथमध्येति । नम० ६ ॥
३४
For Private And Personal Use Only