________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुष्टुब्-वृत्तम् लभतेऽनेकधा दुःखं, परभावे निरन्तरम् । स्वभावे रमतां तावदधुना ज्ञानमन्दिरे ।
एकादशी गीतिः (जिधर देखता हूं-इति रागण गीयते) रमतां रमतां रमतां निजभावे । ॥ध्रुवपदमिदम् । अवतरितोऽत्र समं किमु नीत्वा ! यास्यत्यग्रे किमु सह कृत्वा ? किमपि न, किं नु दहति भवदावे ? रमतां....॥ १॥ कुत आयातोऽस्तीति न वेत्ति, गम्यं कुत्रास्तीति न वेत्ति। मध्ये मौढ्यमिति विभावे । रमतां....।। २ ।। गर्वोचितमिह किमपि न मन्ये, विभवयौवने अपि च न गण्ये । स्थैर्य किमपि न देहशरावे। रमतां....॥ ३ ॥ ज्ञानधनाढ्यं भवनं भवतः, किमन्वेषयति 'चन्दन' परत: ? स्वाय नमो भवतोयधिनावे । रमतां....।। ४ ।।
१ स्वाय-आत्मघनाय 'स्वमज्ञातिधनाच्यायां' इति न सर्वादिकार्यम् ।
For Private And Personal Use Only