________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एषां देहे प्रवेशस्तु शोकदुःखादिकारकः । स्त्रीणां गर्भसमावेश एतेषन्यतमस्य च ॥१०॥ प्रवेशो जठरे तस्याः पुत्रस्य पदमुत्तमम् । चतुर्दशानामेतेभ्य: स्वप्मे मुखप्रवेशतः ॥११॥ स्त्रीणामहेश्चक्रिणोध जन्मसारस्य सूचकम् । सप्तानां वासुदेवस्य चतुर्णा साविकस्य च ॥१२॥ द्वयोमहानरेन्द्रस्यै--कस्य स्यान्मण्डलेशितुः । नृणां राज्यप्रदा ज्ञेया अल्पाल्पधनदायकाः ॥१३॥ एते त्रिंशन्महास्वप्ना व्यतिरिक्ताश्च देहतः। शुभाशुभफलाः श्रेष्ठाः प्राणिनां हर्षदायकाः ॥१४॥ द्विचत्वारिंशदधुना दुःस्वप्ना देहवर्जिताः । महापापा महाघोरा दुःखदा शोकदा नृणाम् ॥१५॥ गन्धर्वा राक्षसा भूताः पिशाचाश्चापि वुकसाः । महिषा हि नवनाथ कण्टकद्नदीगणः ॥१६॥ खर्जश्मशानदासेराः खरमार्जारकुक्कुराः । दारिद्र यकूपसङ्गीत-नीचत्रामणभृतयः ॥१७॥ अस्थिच्छदितमाकुस्त्री--चमेरक्ताश्मवामनाः । कलहो विकृता दृष्टि: शोषचापि महाम्भसाम् ।।१८॥ भकम्पबहरागौ च निर्घातो भङ्ग एव च । पृथिवीमजनं चैव ताराणां पतनं तथा ॥१६॥
For Private And Personal Use Only