________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भिक्षार्थिनः पुण्य लाभं पूर्णपात्रा महाश्रियम् । आशीमुखा वंशवृद्धि कथयन्त्येव लिङ्गिनः ॥३७॥ मृता धृतव्रणाश्छिमाः पलायनपरायणाः । ध्रुवं दिशन्ति वै गावो देशक्षयकुलक्षयौ ।।३।। नृपा सिंहासनासीन-छत्रवस्त्रोपशोभितः । सभूषणो हयारूढो रथेमनरवाहनः ॥३६॥ सुवाक् शस्त्रकरश्चैव स्वप्ने दृष्टो महार्थदः । पूर्वोक्ताद्विपरीतस्तु दुःखशोकप्रदो नृणाम् ॥४॥ दण्डभृन्मरणं दत्ते दारिद्र यं पादचारगः । नृपः यस्य समासेन स्थापनं कुरुते मुदा ॥४१॥ स्वप्ने तस्य विनिर्देश्यं राज्यं वा स्वर्गमेव च । देवाः प्रव्रजिता विप्रा गावः पितर एव वा॥४२।। नृपाः स्वप्ने वदन्त्यत्र यत्तत्सत्यं न संशयः। मलमूत्रवातपित्त-श्लेष्मरोगप्रकोपतः ॥४३॥ एतेषां दर्शनं भाषा निष्फलाश्चिन्तनादपि । इत्येतदैवतं स्वप्नं द्विजलिङ्ग्यादिमेदतः ४४।। इति रुद्रपल्लीयगच्छे श्रीवर्धमानसूरिकृते स्वप्नप्रदीपेस्वात्मावबोधजस्वप्नाधिकारे देवतस्वप्न
विचाररूपः प्रथम उद्योतः ।।१।। ' .
-
For Private And Personal Use Only