________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शतकम्।
परावर्तपु समयास्तैरभ्यस्ता एकसमयोवृत्ता जीवा यावन्तो भवन्ति, तावत परिमाणमागतं वनस्पतीनां । ततः प्रतिनियतपरिमाणतया सिद्धं निल्लेपनं, प्रतिनियतपरिमाणत्वात् । एवं च गच्छता कालेन सिद्धिरपि सर्वेषां भव्यानां प्रसक्ता । तत्प्रसक्तौ च मोक्षपथव्यवच्छेदोऽपि प्रसक्तः, सर्वभव्यसिद्धिगमनानन्तरमन्यस्य सिद्धिगमनाऽयोगात । आह च---
'काठिई कालेणं, तेसि मसंखेज्जयावहारेणं । णिल्लेवणमावण्णं, सिद्धीवि अ सव्वभव्वाणं ॥१॥ पइसमय मसंखेजा, जेणु बट्टति तो तदभत्था । कायट्टिइग समया, वणम्सईणं च परिमाणं ॥२॥
न चैतदस्ति, वनस्पतीनामनादित्वस्य निर्लेपनप्रतिषेधस्य सर्वभव्यासिद्धर्मोक्षपथाव्यवच्छेदस्य च स्त्र २ प्रदेशे सिद्धान्तेऽभिधानात् । उच्यते-इह द्विविधा जीवाः-सांव्यवहारिका असांव्यवहारिकाश्च । तत्र ये निगोदावस्थात उदवृत्त्य पृथ्वीकायादिभेदेष वर्तन्ते, लोके दृष्टिपथमागताः सन्तः पृथ्वीकायादिव्यवहारमनुपतन्तीति सांव्यवहारिका उच्यन्ते । ते च भूयोऽपि निगोदावस्थामुपयान्ति, तथापि ते सांव्यवहारिका एव । संव्यवहारे पतितत्वात् । ये पुनरनादिकालादारभ्य निगोदावस्थामुपगता एवावतिष्ठन्ते, ते व्यवहारपथातीतत्वादसांव्यवहारिकाः । कथमेतदवसीयते ? द्विविधा जीवाः सांव्यवहारिका असांव्यवहारिकाश्चेति । उच्यते-युक्तिवशात् । इह प्रत्युत्पन्नवनस्पतीनामपि निलेपनं प्रतिषिद्धं, किं पुनः सकलवनस्पतीनां, तथा भव्या
For Private And Personal Use Only