________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्याख्यानविधि
अथ प्रसङ्गतः साम्प्रतीनानां लोकोत्तरमिथ्यादृशामुत्पत्तिस्वरूपमाहतत्थवि केई तित्था, विणिग्गया केई सयं समुप्पण्णा । मुच्छिअणाडिसमुच्छिम-कप्पा सव्वेवि अम्बत्ता ॥ ७८ ॥
व्याख्या-तत्रापि-सम्प्रति प्रसिद्धलोकोत्तरमिथ्यादृष्टिष्वपि, केचिद्दिगम्बर-पौर्णिमीयकौष्ट्रिक-पाशचन्द्रीयनामानश्चत्वारोऽपि जैनाऽऽभासमार्गाः तीर्थादनन्तरनिर्गतैः शिवभूति-चन्द्रप्रभाऽऽचार्य-जिनदत्ताऽऽचार्य-पाशचन्द्रनामभिर्व्यवस्थापितत्वेन तीर्थादनन्तरविनिर्गताः। आश्चलिक-सार्द्धपौर्णिमीयकाऽऽगमिकनामानस्त्रयोऽपि पौर्णिमीयकनिर्गतैनरसिंहोपाध्याय-सुमतिसिंहाचार्यशीलदेवनामभिर्व्यवस्थापितत्वेन तीर्थात परम्परविनिर्गताः । केचिच्च लौम्पक-कटक-वन्ध्यनामानस्त्रयोऽपि स्वयमेव समुत्पन्नाः, साक्षात्परम्परया वा तीर्थस्पर्शस्याप्यभावात् । तत्र वन्ध्यो लौम्पकाद्विनिर्गतः इति विशेषो बोध्यः । अथ तेषां क्रमेण स्वरूपमाह-'मुच्छिणाडी'त्यादि । मच्छिता-मीमापन्ना सहसा अलभ्यमाना नाडयो येषां ते मछितनाडयः । ते च सम्मूच्छिमाश्च मच्छितनाडिसम्मूच्छिमाः, प्राकृतत्वाद् व्यंजनलोपो द्रष्टव्यः । अत एव सर्वेऽप्यव्यक्ताः-व्यक्तचेतनारहिताः, तेनैव तीर्थकरं देवं वदतामपि तेषां तीर्थकरव्यवस्थापिततीर्थप्रतिपक्षभूतमार्गाणां प्ररूपणायाः सम्भवात् । अयं भावः-नवीनमार्गप्ररूपणावसरे मिथ्यात्वबाणप्रहतानां अनन्तसंसारवृद्धिलक्षणमरणाभिमुखत्वेन अलभ्यमानसम्यक्त्वनाडयो मूच्छितनाडयः ।
For Private And Personal Use Only