________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७८
व्याख्यान विधि
आत्मागमाऽ १ नन्तरागम २ परम्पराऽऽगम ३ लक्षणस्त्रिविध आगमः, सूत्रानुगमो १ निर्युक्त्यनुगमश्चेति द्विविधोऽनुगमो भणितः । स चाऽऽगमोऽनुगमश्च तस्यैव प्रमाण-सत्यतया अंगीकारः, यस्य नियुक्तिप्रमुखं-नियुक्तिभाष्यचादिकमपि, प्रमाणमितीहापि सम्बध्यते, प्रमाणं भवेत् । अयं भावः-यथा चतुर्दशीपाक्षिककृत्योपधानमालारोपणजिनप्रतिमाराधनाद्यभिधायकत्वेन यथासम्भवं निज २ मतदूषकं श्रीमहानिशीथमपि त्यक्तं, तथा सम्प्रति परम्पराऽऽगमनियुक्त्यनुगमयोः प्रतिपादकत्वेन परम्पराशून्य नियुक्त्याद्यर्थः सर्वैरपि उत्सूत्रभाषिभिनिज २ मार्गदूषकमनुयोगद्वारमपि त्यक्तमभविष्यत् । परम्पराया अभावे परम्पराऽऽगमस्याप्यभावात् । 'ग्रामो नास्ति कुतः सीमे'ति न्यायादिति गाथार्थः ।।७६॥ ____ अथ नियुक्तिभाप्यचूादीनां तीर्थकृभाषितानां व्युच्छिन्नत्वेन कथं तदाऽऽयत्तसूत्रव्याख्यानाऽऽचारादिप्रवृत्तिरिति पराऽऽशङ्कामुद्भाव्य तन्निराकरणमाहणिज्जुत्तिभासचण्णी, जिणिंदभणिआ य जाउ वुच्छिन्ना । ता वित्थरत्थसुत्ता, अण्णह सुत्तत्यवच्छेओ ॥ ७७ ॥ ___व्याख्या–याश्च नियुक्तिभाप्यचर्णयो जिनेन्द्रभाषिताः सम्प्रति व्युच्छिन्नाः, ता विस्तरार्थसूत्रा मन्तव्याः । न पुनमलतोऽपि | बाधकमाह-'अण्णहे'त्यादि । अन्यथा मूलतोऽत्युच्छेदाभ्युपगमे सूत्रार्थस्यापि व्युच्छेदः स्यात् , तस्य नियुक्त्याधात्मकत्वात् । तच्च 'सुत्तथो खलु पढमो' इत्यादि प्रागुपदर्शित
For Private And Personal Use Only