SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शतकम्। rrrrrrrrrram जिणवयणाणणुवयणा, चंदप्पहमाइणो अ सम्वेवि । णेअमजुत्तं जम्हा, सर्यपि ते हंति तित्थयरा ॥७१॥ व्याख्या-चन्द्रप्रभाऽऽचार्यादयः सर्वेऽपि जिनवचनाननुवचनाः-जिनवचनानुवादिनो न भवन्ति । जिनेनोक्तमप्यनुक्तं, अनुक्तं चोक्तमित्येवं भणनात् । न चैतत्तेषामयुक्तं, किन्तु युक्तमेव । तत्र हेतुमाह-यद्-यस्मात् कारणात् ते चन्द्रप्रभाऽsचार्यादयः स्वयं, अपिरेवार्थे, स्वयमेव तीर्थकराः, तीर्थत्वेनाभिमतानां निजनिजमार्गाणामादिकर्तृत्वादिति गाथार्थः ॥७१॥ ____ अथ येन कारणेन ते देवस्वरूपाः, तेन कारणेन निजनिजमार्गेषु प्रक्रियाकर्तारोऽपि भवन्तीति दर्शयतितम्मूला पइमग्गं, भिण्णाभिण्णेव पकिरिया हुन्जा। जह अण्णउत्थियाणं, अण्णाणस्सेव माहप्पा ॥ ७२ ॥ ____ व्याख्या-ते-चन्द्रप्रभाऽऽचार्यादयो मूलमादिकारणं यस्याः सा तन्मूला । प्रक्रिया हि निज २ मार्गमर्यादा, तस्याः प्रणेतारः सर्वेष्वपि दर्शनेष आदिकर्तार एव भवन्ति। तेन पूर्णिमापाक्षिकादिकृत्यविशिष्टा प्रक्रिया चन्द्रप्रभाऽऽचार्येण कृता, स्त्रीजिनपूजानिषेधादिविशिष्टा जिनदत्ताऽऽचार्येण तथा श्राद्धप्रतिक्रमणमुखव स्त्रिकादिनिषेधादिविशिष्टा नरसिंहोपाध्यायेनेत्यादिना यावत् जिनप्रतिमानिषेधरूपा लुम्पकलेखकेन कृता मन्तव्या। एतेन प्रवचनवति यत्सूत्रादिकमभ्युपगतं परिहृतं च तत्सर्वं निज २ मार्ग-प्रक्रियारूपमवसातव्यं, निजनिजवचनाऽविरोधेनैव यदृच्छया सूत्रार्थयोरभ्युपगमात् । न पुनर्जिनोक्त For Private And Personal Use Only
SR No.020783
Book TitleSutra Vyakhayan Vidhi Shatakam
Original Sutra AuthorN/A
AuthorDharmsagar Gani, Labhsagar
PublisherMithabhai Kalyanchand Pedhi
Publication Year1962
Total Pages122
LanguageSanskrit
ClassificationBook_Devnagari, Ritual, & Vidhi
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy