________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६२
ब्याख्यान विधिएएणं सव्वेसि, एगो तित्थगरोत्ति दुबयणं । सम्बेसि तित्थाणं, आइगरा हुंति तित्थयरा ॥ ६४ ॥
व्याख्या--एतेन-नाम-प्ररूपणादिना भिन्नत्वभणनेन सर्वेषामपि जैनानां जैनाऽऽभासानां च तीर्थकरः, तुरध्याहार्यस्तीर्थकरस्तु नाम्ना साम्येन एक एवेति वचनं दुर्वचनं-पापवचनं, तत्र हेतुमाह-यत इति गम्यं, यतः कारणात् सर्वेषामपि वादिनामादिकरा एव तीर्थङ्करा भवन्ति । यथा श्रीऋषभादितीर्थानामादिकराः श्रीऋषभादयो देशकालादिना भिन्न-भिन्नस्वरूपा भवन्ति । न पुनः सर्वेषामपि तीर्थानामेकम्तीर्थङ्करः । एवं दिगम्बरादिसमुदायानां तीर्थत्वेनाभिमतानां भिन्नभिन्नप्ररूपणाऽऽचारादिमतां सुतरां भिन्नभिन्ना एवादिकरा भवन्ति । परं श्रीऋषभादीनां तीर्थकरत्वेन तव्यवस्थापितसमुदायानो च तीर्थत्वेन परस्परं श्रद्धानमधिकृत्य भेदाभावः, प्ररूपणादिना भेदाभावात् । दिगम्बरादीनां तु परस्परं वैपरीत्यमिति विशेषो बोध्य इति गाथार्थः ॥६४॥
अथ दिगम्बरादीनामादिकर्तारः के ? इति प्रश्ने नाममाहेण तानाहतेसि तित्थयरा पुण, सिवभूइप्पमुह णाम आइगरा। वीरजिणो अम्हाणं, तित्थयरो तं मह असच्चं ।। ६५ ।।
__व्याख्या-तेषां-दिगम्बर-पौर्णिमीयकौष्ट्रिकाऽऽञ्चलिकाऽऽगमिक-लौम्पक-कटुक-वन्ध्य-पाशचन्द्रीयाणां, पुनर्नामेति कोमलामन्त्रणे, तीर्थकराः क्रमेण शिवभूतिप्रमुखाः, प्राकृतत्वाद्वि
For Private And Personal Use Only