________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शतकम्।
द्रव्यतः सत्यत्वेनाऽऽवश्यकत्वात् । अन्यथा अनुवाद एव न स्थात् , उक्तस्य वचनाभावात् । निश्चयतस्तु अनुवादेऽभिनिवेशाऽसम्भवात् । नहि लौकिकमिथ्यादृष्टिः निश्चयतः द्रव्यतः सत्यवादो जमालिबदभिनिवेशी स्यात् । एतच्चान वक्ष्यते । एतेन मिथ्यादृष्टिरुपयुक्तोऽनुपयुक्तो वा यद् भाषते, सा मृपैवेति प्रागुक्तवचनेन सह विरोधशङ्कापि परास्ता । भावतोऽसत्यभाषित्वमधिकृत्यैवोक्तत्वात् । अन्यथाऽनुवादस्याऽसत्यत्वापत्त्या जगद्व्यवस्थाभङ्गः प्रसज्येत । अत एवाऽनुवादवचनान्यधिकृत्य जैनैः सह विरोधाभावः मिथ्यादृशामपीति । मिथ्याष्टित्वं च भावतस्तदश्रद्धानात् । तच्चाऽहंदादिष्वदेवत्वादिबुद्धिद्वारैव स्यात् । सा च बुद्धिर्जिनोक्तस्याऽक्षरस्याऽप्यश्रद्धानं दूरे, सन्देहेनाऽपि स्यात् । यदुक्तं-'एकस्मिन्नप्यर्थे, सन्दिग्धे प्रत्ययोऽर्हति हि नष्टः । मिथ्यात्वदर्शनं तत, स चादिहेतुर्भवगतीना' ॥१॥ मिति श्री आ०नि०३० । एतेनोत्सूत्रभाषिणां देशेनाऽपि जिनवचनाऽनुवादो द्रव्यतः सत्यरूपोऽपि व्यवहारत एव, न पुनलौकिकमिथ्यादृशामिव निश्चयतोऽपीति तात्पर्यमिति गाथार्थः ॥ ५६ ॥ ___अथ लौकिकमिथ्यागपेक्षया लोकोत्तरमिथ्या दृष्टिवरीया. निति भ्रान्तिनिरासार्थमाहलोइयमिच्छादिट्ठी, सम्मदिहिन वयणमित्तस्स । अणुवाए अविवाई, णिच्छयो दबसच्चवया ॥ ५७ ॥
व्याख्या-लौकिकमिथ्यादृष्टिः सम्यग्दृष्टिवद् वचनमा
For Private And Personal Use Only