________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शतकम् ।
गम्यं, तथापि ते उत्सूत्रभाषिणो न तथाभूताः-नाऽनुवादिन इत्यर्थः । यत इति गम्यम् । यतस्ते निजवचनविरोधिवचनं जिनेन्द्रोक्तमपि नोक्तमिति वदन्ति । एवं च सति तेषां निजवचनमेव प्रमाणं सम्पन्नम् । न पुनर्जिनेन्द्र णोक्तं, तस्यानुक्तत्वेन भणनात् । यत्तु व्यवहारतः क्वचिदनुवादसदृशं दृश्यते, तत् तदाऽऽभासरूपमवसातव्यम् । अयं भावः-उत्सूत्रभाषिभिनिजनिजमार्गप्रवर्तनावसरे यावदनुष्ठानादिकं निज-निजप्रक्रियारूपतया विकल्पितं, तत्र किंचिद् जिनोक्तवचनमप्यादाय प्रक्रियारूपतया विकल्पितं यदुक्तं ततस्ते भगवत्प्रणीतशास्त्रेभ्यो गौणं समीचीनमित्यादि प्राक् प्रदर्शितं बोध्यम् । एवं च यावदुत्सत्रभाषिमार्गेऽनुष्ठानादिकं तत् सर्व निजनिजप्रक्रियारूपतया विकल्पितम् । अन्यथा जैनाऽऽभासत्वासम्भवादिति गाथार्थः ।।५५।।
अथोक्तार्थसमर्थनाय दृष्टान्तगर्भगाथामाहजह विसलित्ते पत्ते, दुद्धं ववहारओ विसं इहरा। एवं उस्सुत्तजुए, पत्ते सुत्तपि विन्नेअं॥५६॥ ___व्याख्या-यथा विषेण-हालाहलादिना लिप्ते-म्रक्षिते पात्रेस्थाल्यादिभाजने दुग्धमाधाराधेयभावसम्बन्धेन नियोजितं व्यवहारतो दुग्धमुच्यते । इतरथा, तुर्गम्यः। इतरथा तु-निश्चयतस्तु विषमेव, विषस्यैव कार्यकरणात् । एवमुत्सूत्रयुक्त पात्रे-उत्सूत्रभाषिजने सूत्रमपि विज्ञयम् । दृष्टान्तदार्टान्तिकयोर्योजना त्वेवं-यथा विषमिश्रिते भाजने व्यवहारतो दुग्धमपि निश्चयतो विषमेव । एवमुत्सूत्रभाषिजने व्यवहारतः किञ्चित् सूत्रमपि
For Private And Personal Use Only