________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
४८
व्याख्यान विधि
मेवार्थ प्रतिवस्तूपमया दर्शयति-कंचुकमात्र परित्यागात् - उपरिवर्तित्वमात्रपरित्यागात्, नहि नैव, भुजगः- सरीसृपः, कथंचि निर्विषो भवतीति । आस्तामन्यत्, मिथ्यादृशां ज्ञानमप्यज्ञानं, एवं स्वाभिमत देवाद्याराधनशुभाध्यवसायोऽपि मिथ्यात्व - मेवेति श्रीहरिभद्रसूरिकृतस्य श्रावकविधिप्रकरणस्य वृत्ताविति गाथार्थः ॥ ५० ॥
Acharya Shri Kailassagarsuri Gyanmandir
अथ मिथ्यादृग्मार्गाभिमतक्रियाणां फलं दर्शयन्नतिप्रसंगमाह
जं ताओ किरिआओ, थिरयाहेऊ असग्गहाणं सिं । अore अरिहंता इअ, सहणा होइ सम्मत्तं ।। ५१ ।।
व्याख्या - यद्यस्मात् कारणात् ता अनन्तरोक्ताः क्रियाःनाग्न्यव्रत पूर्णिमा पाक्षिक स्त्रीजिनपूजानिषेध श्राद्धमुखवस्त्रिकादिनिषेध - जिनप्रतिमातत्प्रतिष्ठानिषेधरूपाः 'सिं' ति । तेषां दिगम्बरादीनामसद्ग्रहाणामसग्रहवतां निज- निज-गुरूपदेशपर - तन्त्र क्रियारुचीनामसद्ग्रहस्य स्थिरताहेतवः । यतस्ते दिगम्बरादयः सर्वेऽपि निज निज - क्रियापरायणाः वयमेव जिनोक्तक्रियाकारिस्वेन जैनाः । शेषास्तु सर्वेऽपि जैनाऽऽभासाः जिनोक्त क्रियाकारित्वाभावादित्येवं निज- निज-मार्ग क्रियाभिरेवा सद्गृहस्य स्थिरता भवति । अथ यदि तेषामसद्ग्रहस्य स्थिरता न स्यात्तर्हि प्रत्यासन्नभावि सम्यक्त्वं भवेत् तथाभूतश्रद्धानस्य पराभिप्रायेण मार्गानुयायित्वादित्येवं सूक्ष्मदृशा पर्यालोच्यम् ।
For Private And Personal Use Only