________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्याख्यान विधि
त्वमेव । तत्र मिथ्यात्वं द्वधा-आगाढं-तीव्र, वा-अथवा, अनागाढं-मन्दं, वा विकल्पार्थे भवतीति सामान्यतो विभागो दर्शित इति गाथार्थः ॥ ४८॥
अथ प्रथमतया मणितस्याऽऽगाढमिथ्यात्वस्य विभागमाहआगाढं पुण लोइअ-लोउत्तर भेअओ अ दुविगप्पं । तेसिमसग्गहदोसा, दोसो णिअमा अ जिणसमए ॥४६॥ . व्याख्या-आगाढं पुनर्मिथ्यात्वं लौकिकलोकोत्तरभेदतो द्विविकल्पं-द्विप्रकारं, भवति । 'तेसि' ति धर्मधर्मिणोः कथचिदभेदात् तद्वतामागाढमिथ्यादृशामसद्ग्रहदोषात्-निज-निज गुरूपदेशपरतन्त्रक्रियारुचिलक्षणासद्ग्रहदोषमाहात्म्यात् जिनसमये-जैनशासने, नियमात्-निश्चयेन द्वेषो भवति । यदागम:----'से एगइओ समणं वा माहणं वा दिस्सा णाणाविहेहिं पावकम्मेहिं अत्ताणं उवक्खाइत्ता भवति, अदुवा णं अच्छराए आप्फालेता भवति, अहवा फरुसं वइत्ता भवतीत्यादि, यावत् अहम्मपक्खस्स विभंगे एवमाहिए' त्ति सूत्र कृ० द्वि० श्रु० (सू० ३२) वृत्तिर्यथा-'साम्प्रतं विपर्यस्तदृष्टयः आगाढमिथ्यादृष्टयोऽभिधीयन्ते- से एगइओ' इत्यादि । व्याख्या-'अथै ककः कश्चित् आभिग्रहिकमिथ्यादृष्टिरभद्रकः साधुप्रत्यनीकतया श्रमणादीनां निर्गच्छतां प्रविशतां वा स्वयं निर्गच्छन् प्रविशन् वा नानाविधैः पापोपादानभूतैः कर्मभिः आत्मानमुपख्यापयिता भवतीत्येतदेव दर्शयति-अथवेत्ययनुत्तरापेक्षया पक्षान्तरग्रहणार्थ, क्वचित् साधुदर्शने सति मिथ्यात्वोपहतदृष्टि
For Private And Personal Use Only