SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३६ व्याख्यान विधि निर्यु क्तित्र्याख्यानभूतया 'थूभसय भाउ आण' मित्यादिभाष्यगाथया प्रागुपदर्शितमेव । परमुक्तप्रकारेण श्रद्धानं पुनर्दर्शनमोहनीयस्य क्षयोपशमे उपलक्षणात् ज्ञानावरणीय क्षयोपशम सहकृते सत्येव स्यात् । उभयोरपि सहकार्यसहकारिभावसम्बन्धेन कारणत्वादिति गाथार्थः ॥ ४२ ॥ 1 अथोक्तार्थसंवादनार्थं नमस्कारनिर्यु क्तिगतां गाथामाहणाणावर णिज्जस्स उ, दंसणमोहस्स तह खओवसमे । जीवमजीवे अट्ठसु, भंगेसु अ होइ सव्वत्य ॥ ४३ ॥ व्याख्या - जीवाजीवानधिकृत्य अप्टसु भङ्गेषु श्रद्धानं तु ज्ञानावरणीयस्य दर्शनमोहनीयस्य च क्षयोपशमे सत्येव सर्वत्र भवति । ते चाष्टौ भङ्गा अमी - एकः साधुः १ एका प्रतिमा २ बहवः साधवः ३ बहुव्यः प्रतिमाः ४ एकः साधुरेका प्रतिमा ५ एकः साधुर्बह्व्यः प्रतिमाः ६ बहवः साधवः एका प्रतिमा ७ बहवः साधवः बहव्यः प्रतिमाः ८ इति । सर्वत्रापि श्रद्धानं सम्यग्दृशामेव भवति । तस्यैव ( तेषामेव ) तयोः कर्मणोस्तथैव क्षयोपशमात् । तत्र केवलसूत्रार्थ लक्षणः प्रथमोऽनुयोगः 'नमोऽहृद्भ्यः इत्यत्रार्हन्ति शक्रादिकृतां पूजामित्यर्हन्तस्तेभ्य इति शब्दव्युत्पत्त्यैवावसातव्यः । तदनुकूला निर्युक्तिर्यथा 'अरिहंत बंदणणमंसणाई, अरिहंति पूअसकारं । सिद्धिगमणं च अरिहा, अरिहंता तेण वच्चंति' || १ ||त्ति | तथा 'अरिहन्तृभ्य' इत्यत्र अरीन् घ्नन्तीति अरिहन्तारस्तेभ्योऽरिहन्तृभ्योऽरयः के १ इतिप्रश्ने निर्युक्तिर्यथा For Private And Personal Use Only
SR No.020783
Book TitleSutra Vyakhayan Vidhi Shatakam
Original Sutra AuthorN/A
AuthorDharmsagar Gani, Labhsagar
PublisherMithabhai Kalyanchand Pedhi
Publication Year1962
Total Pages122
LanguageSanskrit
ClassificationBook_Devnagari, Ritual, & Vidhi
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy