________________
Shri Mahavir Jain Aradhana Kendra
शतकम्
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३
व्याख्या -- षडविंशतौ एकादशं द्वारं समवतारलक्षणं, तस्यैव या निर्युक्तिः, तस्यां जमालिप्रमुखाः बोटिकपर्यन्ताः भणिताः । तत्राविद्यमानापत्यत्वेन जमाल्यादीन् परित्यज्य बोटिकोऽधिकृतो वक्ष्यते इति गाथार्थः ||२२||
अथ बोटिकस्योत्पत्तिमधिकृत्य कालं क्षेत्रं च निर्युक्तिगाथयैवाह-
छब्वाससयाई णवत्तराई, तइआ सिद्धिं गयस्स वीरस्स | तो बोडिआण दिट्ठि, रहवीरपुरे समुपण्णा ||२३||
व्याख्या च सुगमैवेति गाथार्थः ||२३||
अथ बोटिकस्योत्पत्तिनिमित्तपरिज्ञानाय निर्युक्तिगाथामाहरहवीरपुरं यरं, दीवगमुजाण अज्जकण्हे य । सिवस्सुवहिंमि य, पुच्छा थेराण कहणा य ||२४|| व्याख्या - रथवीरपुरं नगरमित्यादि यावत् 'तत्थ य दीवगमुज्जाणं, तत्थ य अज्जकण्हा णाम आयरिआ समोसढा, तत्थ य एगो सहसमल सिवभूई णामेत्यादि सर्वं हारिभद्रीयवृत्तौ कथानकादव सातव्यमिति गाथार्थः ||२४||
अथ बोटिकस्य नाम्यत्रतं मरीचिवचनेन दूषयितुं निर्युक्ति
For Private And Personal Use Only
गाथामाह -
सुक्कंबरा य समणा, णिरंबरा मज्झ धाउरताई । हुरंतु अ मे वत्थाई, अरिहोमि कसायकलुसमई ||२५|| व्याख्या च वृत्तिगता यथा - शुक्लान्यम्बराणि वस्त्राणि येषां ते शुक्लाम्बराः श्रमणाः । तथा निर्गतमम्बरं येभ्यस्ते निर