________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शतकम्।
१११
चेव उदीरेति, अप्पणा चेव संवरेति' त्ति । भग० श० १ उ०३ । वृत्त्येकदेशो यथा-'इह यद्यप्युदीरणादौ कालस्वभावादीनां कारणत्वमस्ति, तथापि प्राधान्येन पुरुषवीर्यस्यैव कारणत्वमुपदशयन्नाह-'जं तमित्यादि व्यक्त'मिति विशेषो बोध्य इति थार्थः ।। १०२ ॥
अथोक्तार्थाभिधायिकामागमसम्मतिमाहबीअंगे पुण एवं, सुत्ते वित्तीइ जुत्तिपुब्बंपि । जं भणियं तंपि इहं, पसंगओ दंसिअं अं॥ १०३ ॥ ___ व्याख्या-द्वितीयाङ्ग-सूत्रकृदङ्गनाम्न्यङ्ग, पुनःशब्दः पूर्वसङ्गतिद्योतनार्थः । एवं-प्राकप्रदर्शितमेव सर्व वस्तु पंचसमवायजन्यत्वेन नियतानियतं, न पुनः किंचिन्नियतं किंचिच्चानियतमिति विवेकेन भणनं तद्वदित्यर्थः । क्व ?, सूत्रे वृत्तौ च युक्तिपूर्वमपि-युक्तियुक्तमित्यर्थः । यद् भणितं तदपीह प्रकरणे प्रसङ्गतः-प्रागुक्तस्य लौम्पकविशेषस्य परिज्ञानार्थमित्यर्थः । सूत्रोक्तमेवानूक्तमित्यर्थः इति ज्ञयं-ज्ञातव्यं । अथ सूत्रोक्तस्य दिग्दर्शनं त्वेवं-'एवमेआणि जंपंता, बाला पंडिअमाणिणो । "णिअयाणिअयं संतं, अयाणंता अबुद्धिआ ।। १ ।। इति श्री सूत्रकृदङ्ग ऽध्य ० १, उ० २ । वृत्त्येकदेशो यथा-'एवमित्यनन्तरोक्तस्योपदर्शने । 'एतानि' पर्वोक्तानि नियतवादाश्रितानि वचनानि जल्पन्तोऽभिदधतो बाला इव बालाः--सदसद्विवेकविकला अपि सन्तः पण्डितमानिन:-आत्मानं पण्डितं मन्तं शीलं येषां ते तथा, किमिति ते एवमुच्यन्ते ? इति तदाह-यतो 'णि
For Private And Personal Use Only