________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शतकम्।
"णमो अरिहंताण'मिति समयसिद्धं-समये-जैनशासने बालका. नामपि प्रतीतत्वात् सिद्ध-सिद्धिप्राप्तं, नमस्कारस्य सामायिकाध्ययनान्तर्गतत्वादिति गाथार्थः ।। १ ॥
अथ 'नमो अरिहंताण' मितिपदस्य सूत्रत्वेन तल्लक्षणपरिज्ञापनाय सामान्यतो गणधरकृतसूत्रस्य स्वरूपमाहगणहररइयं सुत्तं, लक्खणजुत्तं हविज्ज णियमेण । तल्लक्खणं तु आगम-भणि तह किंचि दंसेमि ॥४॥
व्याख्या-गणधररचितं सूत्रं नियमेन-निश्चयेन लक्षणयुक्तं, एवो गम्यो, लक्षणयुक्तमेव भवेत् । तच्च यथाऽऽगमे भणितं तथा किंचिद्दर्शयामीति गाथार्थः ॥ ४ ॥ __अथ सूत्रलक्षणमाहअप्पग्गंथ १ महत्थं २, बत्तीसादोसविरहिनं ३ जं च । लक्खणजुत्तं सुत्तं ४, अट्ठहि अ गुणेहि उववेअं ॥ ५ ॥
व्याख्या-अल्पग्रन्थं च महाथ चेति विग्रहः । उत्पादव्ययध्रौव्ययुक्त सदितिवत् द्वात्रिंशदोषरहितं यच्च लक्षणयुक्तं अष्टभिर्गुणैरु(प)पेतं सूत्रं भवति । ते चाष्टौ गुणा अमीणिदोसं १ सावंतं च २ हेउजुत्त ३ मलंकिअं ४ । उवणीयं ५ सोक्यारं च ६, मिअं७ महुर ८ मेव य॥१॥त्ति।
तत्र निर्दोषं च वक्ष्यमाणद्वात्रिंशद्दोषरहितं, सारवत्-बहुपर्यायं गोशब्दवत् सामायिकवद्वा, अन्वयव्यतिरेकलक्षणा हेतवस्तैयक्तं, अलंकृतं-उपमानादिभिरुपेतं, उपनीतं च-उपनयोपसंहृतं, सोपचारं-अग्राम्याभिधानं, मितं-वर्णादिनियतपरिमाणं, मधुरं श्रवण
For Private And Personal Use Only