________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
1
शतकम् ।
६६
निगोदारचेती तरेतरद्वन्द्वकरणे असंगतिदोषगन्धस्याप्यभावात् । एतच्च प्रज्ञापनासूत्रवृत्त्यभिप्रायेण प्राक् समर्थितमपि । सम्यग्जिज्ञासुभिः सैव वृत्तिः सम्यक् पर्यालोच्या । अयं भावः - व्यवहारित्वं प्राप्यापि केचिज्जीवाः तथाभव्यत्वयोगेन व्यक्तमिथ्यात्वं वा सम्यक्त्वं वाऽवाप्य क्रियावादित्वाभिव्यञ्जक क्रियाकारिणो भवन्ति । क्रियाकरणं हि क्रियावादित्वजन्यं भवति, न क्रियाजन्यं क्रियावादित्वं क्रियावादित्वमन्तरेण तद्व्यंजकनाना क्रियाकरणे सामर्थ्याभावात । एवं यथोक्तसंसारस्थितिरपि न क्रियाजन्या, न वा सम्यक्त्वजन्या । किन्तु एकपुद्गलपरावर्तावशेषसंसारस्य जीवस्य क्रियाकरणयोग्यतायां सत्यां कस्यचिन्मोक्षप्राप्त्यभिप्रायेण क्रिया भवति, कस्यचिच्च न भवति । प्राप्तव्यशुभाशुभ गत्यनुसारेण कालादिसामग्रीजन्यकारणभूतायाः क्रियायाः सम्पत्तेः। एवमपार्द्धपुद्गलपरावर्त्ताविशेषसंसारस्य जीवस्य सम्यक्त्वप्राप्तियोग्यतायां सत्यां तथाभव्यत्वयोगेन कस्यचित् सम्यक्त्वलाभो भवति, कस्यचिच्च नेति । अन्यथा क्रियाकरणानन्तरं सम्यक्त्वप्राप्यनन्तरं च एकपुद्गलपरावर्तः अपार्द्धपुद्गलपरावर्तश्च संसारः क्रियावादिनां सम्यग्दृशां च नियमेन भवेत् । क्रियाकरणात् सम्यक्त्व प्राप्तेश्च पूर्वमजातत्वात् तयोर्जातयोश्च जातत्वात्, एतच्च न सम्भवति, मरुदेवी मेघकुमारादौ व्यभि चारात् । तेषां क्रियाकरणसम्यक्त्व प्राप्त्योरभावेऽपि अल्पसंसारस्य जातत्वात् । तस्माद्यथाप्रवृत्तकरणसहकृतेन प्रत्यात्मनिष्ठ भिन्नभिन्न [व] तथा भव्यत्वयोगेन सञ्जातयथोक्तसंसारो भवति । स च
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only