________________
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
मारेण 'संस्तुता' कृता प्रसाधिता माया, तया च मायया लोका नियन्ते, न च परमार्थतो जीवस्योपयोगलक्षणस्य व्यापत्तिरस्ति, अतो मायैषा यथाऽयं मृतः, तथा चायं लोकः 'अशाश्वतः' अनित्यो विनाशीति गम्यते ॥ ७॥ अपि च
माहणा समणा एगे, आह अंडकडे जगे। असो तत्तमकासी य, अयाणंता मुसं वदे ॥ ८॥ 'ब्राह्मणा' धिगृजातयः 'श्रमणा:' त्रिदण्डिप्रभृतयः 'एके केचन पौराणिका न सर्वे, एवम् 'आहुः उक्तवन्तो, वदन्ति च यथा-जगदेतच्चराचरमण्डेन कृतमण्डकृतं अण्डाजातमित्यर्थः, तथाहि ते वदन्ति-यदा न किश्चिदपि वस्खासीत्-पदार्थ-16 शून्योऽयं संसारः तदा ब्रह्माऽपस्खण्डमसृजत् , तसाच क्रमेण वृद्धात्पश्चाविधाभावमुपगतादृर्वाधोविभागोऽभूत् , तन्मध्ये च सर्वाः | प्रकृतयोऽभूवन् , एवं पृथिव्यप्तेजोवावाकाशसमुद्रसरित्पर्वतमकराकरनिवेशादिसंस्थितिरभूदिति, तथा चोक्तम्-"आसीदिदं तमोभूतमप्रज्ञातमलक्षणम् । अप्रतर्यमविज्ञेयं, प्रसुप्तमिव सर्वतः ॥१॥" एवंभूते चासिन् जगति 'असौ ब्रह्मा, तस्य भावस्तत्त्वं--पदार्थजातं तदण्डादिप्रक्रमेण 'अकार्षीत् कृतवानिति । ते च ब्राह्मणादयः परमार्थमजानानाः सन्तो मृषा वदन्त एवं वदन्ति-अन्यथा च स्थितं तत्त्वमन्यथा प्रतिपादयन्तीत्यर्थः॥८॥ अधुनैतेषां देवोतादिजगद्वादिनामुत्तरदानायाह
सरहिं परियाएहिं, लोयं ब्रूया कडेति यातत्तं ते ण विजाणंति, ण विणासी कयाइवि ॥ ९॥ 'खकैः' खकीयैः 'पर्यायैः' अभिप्रायैर्युक्तिविशेषैः अयं लोकः कृत इत्येवम् ‘अब्रुवन्' अभिहितवन्तः, तद्यथा-देवोप्तो
सूत्रकृ.८॥
For Private And Personal