SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ Malin Aradhana Kendra www.kcbatirth.org Acharya Shri Kailashsageti farmandie यार्थः ॥२-३॥ एवं दृष्टान्तमुपदर्य दार्शन्तिके योजयितुमाह-यथैतेऽनन्तरोक्ता मत्स्यास्तथा 'श्रमणाः श्राम्यन्तीति श्रमणा ISI 'एके' शाक्यपाशुपतादयः खयूथ्या वा, किंभूतास्ते इति दर्शयति-वर्तमानमेव सुखम्-आधाकर्मोपभोगजनितमेषितुं शीलं येषां ते वर्तमानसुखैषिणः, समुद्रवायसवत् तत्कालावाप्तसुखलवासक्तचेतसोनालोचिताधाकर्मोपभोगजनितातिकटुकदुःखौघानुभवा वैशालिकमत्स्या इव 'घात' विनाशम् 'एष्यन्ति' अनुभविष्यन्ति 'अनन्तशः' अरहट्टघटीन्यायेन भूयो भूयः संसारोदन्वति निमजनोन्मजनं कुर्वाणा न ते संसाराम्भोधेः पारगामिनो भविष्यन्तीत्यर्थः॥४॥ साम्प्रतमपराज्ञाभिमतोपप्रदर्शनायाह इणमन्नं तु अन्नाणं, इहमेगेसि आहियं । देवउत्ते अयं लोए, बंभउत्तेति आवरे ॥ ५॥ ईसरेण कडे लोए, पहाणाइ तहावरे । जीवाजीवसमाउत्ते, सुहदुक्खसमन्निए ॥६॥ सयंभुणा कडे लोए, इति वुत्तं महेसिणा। मारेण संथुया माया, तेण लोए असासए ॥७॥ 'इद'मिति वक्ष्यमाणं, तुशब्दः पूर्वेभ्यो विशेषणार्थः, 'अज्ञान'मिति मोहविजृम्भणम्—'इह' असिन् लोके एकेषां न सर्वेषाम् || 'आख्यातम् अभिप्रायः,किं पुनस्तदाख्यातमिति तदाह-देवेनोप्तो देवोतःकर्षकेणेव बीजवपनं कृखा निष्पादितोऽयं लोक इत्यर्थः, देवैवा गुप्तो-रक्षितो देवगुप्तो देवपुत्रो वेत्येवमादिकमज्ञानमिति, तथा ब्रह्मणा उप्तो ब्रह्मोप्तोऽयं लोक इत्यपरे एवं व्यवस्थिताः तथाहि तेषामयमभ्युपगमः-ब्रह्मा जगत्पितामहः, स चैक एव जगदादावासीत्तेन च प्रजापतयः सृष्टाः तैश्च क्रमेणैतत्सकलं जगदिति | eeeeeeeeeeeeeeee For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy