________________
Shri Main Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsaganmandir
जं किंचि इकडं, सड्डीमागंतुमीहियं । सहस्संतरियं भुंजे, दुपक्खं चैव सेवइ ॥ १ ॥ तमेव अवियाणंता, विसमंसि अकोविया । मच्छा वेसालिया चेव, उदगस्स भियागमे ॥ २ ॥ उदगस्स पभावेणं, सुक्कं सिग्धं तमिति उ । ढंकेहि य कंकेहि य, आमिसत्थेहिं ते दुही ॥ ३ ॥ एवं तु समणा एगे, वट्टमाणसुहेसिणो । मच्छा वेसालिया चेव, घातमेस्संति णंतसो ॥ ४ ॥
अस्य चानन्तरसूत्रेण सहायं संबन्ध - इहानन्तरोद्देशकपर्यन्तसूत्रे ऽभिहितम्, 'एवं तु श्रमणा एके' इत्यादि, तदिहापि संबध्यते, एके श्रमणा यत्किञ्चित्पूतिकृतं भुञ्जानाः संसारं पर्यटन्तीति, परम्परसूत्रे खभिहितं 'बुज्झिञ्ज' इत्यादि, यत्किञ्चित्पूतिकृतं तद्बुध्ये| तेति, एवमन्यैरपि सूत्रैरुत्प्रेक्ष्य संबन्धो योज्यः । अधुना सूत्रार्थः प्रतीयते - 'यत्किञ्चिदिति आहारजातं स्तोकमपि, आस्तां तावत्प्रभूतं, तदपि 'पूतिकृतम्' आधाकर्मादिसिक्थेनाप्युपसृष्टम्, आस्तां तावदाधाकर्म, तदपि न स्वयंकृतम्, अपि तु 'श्रद्धावता' अन्येन भक्तिमताऽपरान् आगन्तुकानुद्दिश्य 'ईहितं' चेष्टितं निष्पादितं तच्च सहस्रान्तरितमपि यो 'भुञ्जीत' अभ्यबहरेदसौ 'द्विपक्षं' गृहस्थपक्षं प्रव्रजितपक्षं चाऽऽसेवते, एतदुक्तं भवति - एवंभूतमपि परकृतमपरागन्तुकयत्यर्थं निष्पादितं यदाधाकर्मादि तस्य सहस्रान्तरितस्यापि योऽवयवस्तेनाप्युपसृष्टमाहारजातं भुञ्जानस्य द्विपक्षसेवनमापद्यते, किं पुनः य एते शाक्यादयः | स्वयमेव सकलमाहारजातं निष्पाद्य स्वयमेव चोपभुञ्जते ?, ते च सुतरां द्विपक्षसेविनो भवन्तीत्यर्थः, यदिवा - 'द्विपक्ष' मिति
For Private And Personal