________________
Shri Mahavia adhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagaanmandir
| तद्यथा - गृहस्थाः यतीनामन्तिके समागत्य धर्म श्रुत्वा सम्यक्त्वं प्रतिपद्य तदुत्तरकालं संजातवैराग्याः प्रव्रज्यां गहीत्वा पुनस्तथाविधकर्मोदयात्तामेव त्यजन्ति, ते च पूर्व गृहस्थाः सर्वारम्भप्रवृत्तास्तदारतः प्रव्रजिताः सन्तो जीवोपमर्द्दपरित्यक्तदण्डाः पुनः प्रत्रज्यापरित्यागे सति नो परित्यक्तदण्डाः, तदेवं तेषां प्रत्याख्यातॄणां यथावस्थात्रयेऽप्यन्यथात्वं भवत्येवं त्रसस्थावरयोरपि द्रष्टव्यम्, एतच्च 'भगवं च णमुदाहु' रित्यादेर्ग्रन्थस्य 'से एवमायाणियवं' इत्येतत्पर्यवसानस्य तात्पर्य, अक्षरघटना तु सुगमेति स्वबुद्ध्या कार्या ॥ तदेवं द्वितीयं दृष्टान्तं प्रदर्श्याधुना तृतीयं दृष्टान्तं परतीर्थिकोद्देशेन दर्शयितुमाह- 'भगवं चणं उदाहु इत्यादि, यावत् से एवमायाणियवं 'ति उत्तानार्थं । तात्पर्यार्थस्त्वयं - पूर्व परिव्राजकादयः सन्तोऽसंभोग्याः साधूनां गृहीतश्रामण्याः साधूनां संभोग्याः संवृत्ताः पुनस्तदभावे त्वसंभोग्या इत्येवं पर्यायान्यथात्वं त्रसस्थावराणामप्यायोजनीयमिति ॥ तदेवं दृष्टान्तत्रये प्रथमे दृष्टान्ते हन्तव्यविषयभूतो यतिगृहस्थ भावन पर्यायभेदो दर्शितो द्वितीये दृष्टान्ते प्रत्याख्यातृविषयगतो गृहस्थयति पुनर्गृहस्थभेदेन पर्या| यभेदः प्रदर्शितः, तृतीये तु दृष्टान्ते परतीर्थिकसाधुभावो निष्क्रमणभेदेन संभोगासंभोगद्वारेण पर्यायभेदो व्यवस्थापित इति । तदेवं | दृष्टान्तप्राचुर्येण निर्दोषां देशविरतिं प्रसाध्य पुनरपि तद्गतमेव विचारं कर्तुकाम आह
भगवं च णं उदाहु संतेगइया समणोवासगा भवति, तेसिं च णं एवं वृत्तपुत्रं भवइ - णो खलु वयं संचामो मुंडा भविता अगाराओ अणगारियं पचइत्तए, वयं णं चाउद्दसमुद्दिद्वपुण्णिमासिणीसु पडिपुण्णं पोस सम्म अणुपालेमाणा विहरिस्सामो, थूलगं पाणाइवायं पचक्वाइस्सामो, एवं थूलगं मुसावायं थूलगं अदिन्नादाणं धूलगं मेहुणं धूलगं परिग्गदं पञ्चक्वाइस्सामो, इच्छापरिमाणं करिस्सामो, दुविहं तिवि
For Private And Personal