________________
Shri Maha
Ladhana Kendra
www.kobatirth.org
Acharya Shri Kailashag
a nmandir
सूत्रकृताले
यता
णमिति वाक्यालङ्कारे, चशब्दः पुनःशब्दार्थ, पुनरपि भगवान् गौतमस्वाम्येवाह-खौद्धत्यपरिहरणार्थमपरानपि तत्स्थविरान् | २ श्रुतस्क-12 साक्षिणः कर्तुमिदमाह-'निग्रेन्था' युष्मत्स्थविराः खलु प्रष्टव्याः, तद्यथा-आयुष्मन्तो निर्ग्रन्था! युष्माकमप्येतद्वक्ष्यमाणमभिम-18 न्दीयाध्य. न्धे शीला- तमाहोखिन्नेति, अवष्टम्भेन चेदमाह, युष्माकमप्येतदभिप्रेतं यदहं वच्मि, तद्यथा-शान्तिः-उपशमस्तत्प्रधाना एके केचन मनुष्या श्रावकमकीयावृत्तिः | भवन्ति, न नारकतिर्यग्देवाः, किं तर्हि ?, मनुष्याः, तेऽपि नाकर्मभूमिजा नापि म्लेच्छा अनार्या वा, तेषां चार्यदेशोत्पन्नानामु
त्याख्यानपशमप्रधानानाम् एतद् उक्तपूर्व भवति-अयं व्रतग्रहणविशेषो भवति, तद्यथा-य इमे मुण्डा भूत्वाऽगाराद्-गृहानिर्गत्यानगारतां
स्य सविष॥४१८॥
प्रतिपन्नाः-प्रव्रजिता इत्यर्थः, एतेषां चोपर्यामरणान्तं मया दण्डो निक्षिप्तः-परित्यक्तो भवति, इदमुक्तं भवति-कश्चित्तथा| विधो मनुष्यो यतीनुद्दिश्य व्रतं गृह्णाति, तद्यथा-न मया यावज्जीवं यतयो हन्तव्याः, तथा ये चेमेगारं-गृहवासमावसन्ति तेषां दण्डो निक्षिप्त इत्येवं केषांचिद् व्रतग्रहणविशेषे व्यवस्थिते सति इदमपदिश्यते-तत्र केचन श्रमणाः प्रबजिताः कियन्तमपि कालं प्रव्रज्यापर्यायं प्रतिपाल्य, तमेव कालविशेष दर्शयति-यावद्वर्षाणि चत्वारि पञ्च वा षड दश वा, अख चोपलक्षणार्थत्वादन्योऽपि कालविशेश द्रष्टव्यः, तमेवाह-अल्पतरं वा प्रभूततरं वा कालं तथा देशं च 'इजितति विहृत्य कृतश्चित्कर्मोदयात्तथाविधपरिणतेरगारं-गृहवासं बसेयुः-गृहस्था भवेयुरित्येवंभूतः पर्यायः किं संभाव्यते ? उत नेत्येवं पृष्टा निग्रन्थाः प्रत्यूचुः-हन्त गृहवासं ब्रजेयुः, तस्य च यतिवधगृहीतव्रतस्य तं गृहस्थं व्यापादयतः किं व्रतभङ्गो भवेदुत नेति ?, आहुर्नेति, एवमेव श्रमणोपासक-||४१८॥ स्थापि त्रसेषु दण्डो निक्षिप्तो न स्थावरेष्विति, अतस्त्रसं स्थावरपर्यायापनं व्यापादयतस्तत्प्रत्याख्यानभङ्गो न भवतीति ॥ साम्प्रतं पुनरपि पर्यायापनस्यान्यथात्वं दर्शयितुं द्वितीयं दृष्टान्वं प्रत्याख्याविषयगतं दर्शयितुकाम आह-भगवानेव गौतमखाम्याह,
For Private And Personal