________________
Shri Mahavior
adhana Kendra
www.kobatirth.org
Acharya Shri Kailashsag
a nmandir
सोनिष्टमपि स्वपरात्मनोनिरर्थकमपि कृत्यं कुर्वीत, भगवांस्तु सर्वज्ञः सर्वदशी परहितैकरतः कथं स्वपरात्मनोनिरुपकारकमेवं कुर्यात् , तथा च बालस्येव कृत्यं यस्य स बालकृत्यो, न चासौ बालवदनालोचितकारी, न परानुरोधान्नापि गौरवाद्धर्मदेशनादिकं विधत्ते अपितु यदि कस्यचिद्भव्यसत्त्वस्योपकाराय तद्भाषितं भवति ततः प्रवृत्तिर्भवति, नान्यथा, तथा न राजा|भियोगेनासौ धर्मदेशनादौ कथञ्चित्प्रवर्तते, ततः कुतस्तस्य भयेन प्रवृत्तिः स्यादित्येवं व्यवस्थिते केनचित्कचित्संशयकृतं प्रश्नं व्यागृणीयाद् यदि तस्योपकारो भवति, उपकारमन्तरेण 'न च' नैव व्यागृणीयाद् , यदिवाऽनुत्तरसुराणां मनःपर्यायज्ञानिनां च द्रव्यमनसैव तन्निर्णयसंभवादतो न व्यागृणीयादित्युच्यते । यदप्युच्यते भवता–यदि वीतरागोऽसौ किमिति धर्मकथां करोतीति चेदित्याशङ्ग्याह-'खकामकृत्येन' स्वेच्छाचारिकारितयाऽसावपि तीर्थकुनामकर्मणः क्षपणाय न | यथाकथंचिद्, अतोऽसावग्लानः 'इह' असिन्संसारे आर्यक्षेत्रे वोपकारयोग्ये, आर्याणां सर्वहेयधर्मदूरवर्तिनां तदुपकाराय धर्मदे- शनां व्यागृणीयादसाविति ॥ १७ ॥ किंचान्यत्-'गंते'त्यादि, स हि भगवान् परहितैकरतो गवापि विनेयासन्नमथवाऽप्यगखा ||| यथा यथा भव्यसत्त्वोपकारो भवति तथा तथा भगवन्तोऽर्हन्तो धर्मदेशनां विदधति, उपकारे सति गखापि कथयन्त्यसति तु स्थिता अपि न कथयन्तीत्यतो न तेषां रागद्वेषसंभव इति, केवलमाशुप्रज्ञ-सर्वज्ञः 'समतया' समदृष्टितया चक्रवर्तिद्रमकादिषु || पृष्टोऽपृष्टो वा धर्म व्यागृणीयात् 'जहा पुण्णस्स कत्थइ तहा तुच्छस्स कत्थई' इति वचनादित्यतो न रागद्वेषसद्भावस्तस्येति । यत्पु1. नरनायेदेशमसौ न व्रजति तत्रेदमाह-अनार्याः क्षेत्रभाषाकर्मभिर्बहिष्कृता दर्शनतोऽपि परि-समन्तादिताः-गताः प्रभ्रष्टा इति
यावत् । तदेवमसौ भगवानित्येतत्तेषु सम्यग्दर्शनमात्रमपि कथञ्चिन्न भवतीत्याशङ्कमानस्तत्र न व्रजतीति । यदिवा-अविपरीत
eseeeeeeeeeeeeeee
For Private And Personal