________________
Shri Mahan
a dhana Kendra
www.kcbatrth.org
Acharya Shri Kailashes
anmandi
सूत्रकृताङ्गे भगवानात्यन्तिकरागद्वेषप्रहाणादेकाक्यपि जनपरिवृतोऽप्येकाकी, न तस्य तयोरवस्थयोः कश्चिद्विशेषोऽस्ति, तथा चोक्तम्-"रागद्वेषौ ||६आर्द्रका२ श्रुतस्क-1 विनिर्जित्य, किमरण्ये करिष्यसि ? । अथ नो निर्जितावेतौ, किमरण्येकरिष्यसि ? ॥ १॥” इत्यतो बाबमनङ्गमान्तरमेव कषायज- ध्ययन. न्धे शीला- | यादिकं प्रधानं कारणमिति स्थितम् ॥ ४ ॥ अपगतरागद्वेषस्य प्रभाषमाणस्यापि दोषाभावं दर्शयितुमाह-तस्य भगवतोऽपगतघनघा-15 कीयावृत्तिः तिकलङ्कस्योत्पन्नसकलपदार्थावि विज्ञानस्य जगदभ्युद्धरणप्रवृत्तस्यैकान्तपरहितप्रवृत्तस्य खकार्यनिरपेक्षस्य धर्म कथयतोऽपि ||| ॥३९॥
तुशब्दस्यापिशब्दार्थत्वात् नास्ति कश्चिद्दोषः। किंभूतस्येत्याह-क्षान्तस्य शान्तिसंपन्नस्यानेन क्रोधनिरासमाह, तथा 'दान्तस्य। | उपशान्तस्यानेन तु मानव्युदासं, तथा जितानि खविषयप्रवृत्तिनिषेधेनेन्द्रियाणि येन स जितेन्द्रियो वश्येन्द्रियोऽनेन तु
लोभनिरासमाचष्टे, मायायास्तु लोभनिरासादेव निरासो द्रष्टव्यः, तन्मूलत्वात्तस्याः, भाषाया दोषा-असत्यासत्यामृषा-1 | कर्कशासभ्यशब्दोच्चारणादयस्तद्विवर्जकस्य-तत्परिहर्तुस्तथा भाषाया ये गुणा-हितमितदेशकालासंदिग्धभाषणादयस्तन्निषेवकस्य |सतो बुवतोऽपि नास्ति दोषः, छद्मस्थस्य हि बाहुल्येन मौनव्रतमेव श्रेयः, समुत्पन्नकेवलस्य तु भाषणमपि गुणायेति ॥५॥ किंभूतं धर्ममसौ कथयतीत्याह-'महत्वए पंचे'त्यादि, महान्ति च तानि व्रतानि-प्राणातिपातविरमणादीनि तानि च साधूनां प्रज्ञापितवान् , पञ्चापि तदपेक्षयाऽणूनि-लघुनि व्रतानि अणुव्रतानि पञ्चैव तानि श्रावकानुद्दिश्य प्रज्ञापितवान् , पश्चाश्रवान्प्राणातिपातादिरूपान् कर्मणः प्रवेशद्वारभूतान तत्संवरं च सप्तदशप्रकारं संयम प्रतिपादितवान् , संवरवतो हि विरतिर्भवतीत्यतो |॥३९०॥ विरतिं च प्रतिपादितवान् चशब्दात्तत्फलभूती निर्जरामोक्षौ च, 'इह' अस्मिन्प्रवचने लोके वा श्रमणभावः श्रामण्यं-संपूर्णसंयमस्तस्मिन् वा विधेये मूलगुणान्-महाव्रताणुव्रतरूपान् तथोत्तरगुणान्-संवरविरत्यादिरूपान् 'पूर्णे' कृत्स्ने संयमे विधातव्ये 'प्राज्ञ'
verseekeeeeeeeeeeee
For Private And Personal