SearchBrowseAboutContactDonate
Page Preview
Page 783
Loading...
Download File
Download File
Page Text
________________ Shri Mahaviradhana Kendra www.kobatirth.org Acharya Shri Kailashsagaanmandir 'पूर्व' पूर्वस्मिन्काले यन्मौनव्रतिकत्वं या चैकचर्या तच्छद्मस्थत्वाद् घातिकर्मचतुष्टयक्षयार्थ, साम्प्रतं यन्महाजनपरिवृतस्य धर्मदेशना | विधानं तत्प्राग्वद्धभवोपग्राहिकर्मचतुष्टयक्षपणोद्यतस्य विशेषतस्तीर्थकरनाम्नो वेदनार्थं अपरासां चोच्चैर्गोत्रशुभायुर्नामादीनां शुभप्रकृ| तीनामिति । यदिवा पूर्व साम्प्रतमनागते च काले रागद्वेषरहितत्वादेकत्व भावनानतिक्रमणाच्चैकत्वमेवानुपचरितं भगवानशेषजनहितं धर्मं कथयन् प्रतिसंदधाति, न तस्य पूर्वोत्तरयोरवस्थयोराशंसारहितत्वाद्भेदोस्ति, अतो यदुच्यते भवता - पूर्वोत्तरयोरवस्थयोरसाङ्गत्यं | तत् लवत इति ॥ ३ ॥ स्यादेतद्- धर्मदेशनया प्राणिनां कश्चिदुपकारो भवत्युत नेति ?, भवतीत्याह - 'समिच्च लोय' मित्यादि, सम्यग् - यथावस्थितं 'लोकं' पड़द्रव्यात्मकं 'मत्वा' अवगम्य केवलालोकेन परिच्छिद्य त्रस्यन्तीति त्रसा:- त्रसनामकर्मोदया द्वीन्द्रियादयः, तथा तिष्ठन्तीति स्थावराः - स्थावरनामकर्मोदयात्स्थावराः पृथिव्यादयस्तेषामुभयेषामपि जन्तूनां 'क्षेमं' शान्तिः रक्षा तत्करणशीलः | क्षेमंकरः श्राम्यतीति श्रमणो- द्वादशप्रकारतपोनिष्टप्तदेहः, तथा मा हणत्ति प्रवृत्तिर्यस्यासौ मानो ब्राह्मणो वा स एवंभूतो 'निर्ममो' रागद्वेषरहितः प्राणिहितार्थं न लाभपूजाख्यात्यर्थं धर्ममाचक्षाणोऽपि प्राग्वत् छद्मस्थावस्थायां मौनव्रतिक इव वाक्संयत एव, | उत्पन्नदिव्यज्ञानत्वाद्भाषागुणदोषविवेकज्ञतया भाषणेनैव गुणावाप्तेः, अनुत्पन्नदिव्यज्ञानस्य तु मौनव्रतिकत्वेनेति, तथा देवासुरनरतिर्यक्सहस्र मध्येऽपि व्यवस्थितः पङ्काधारपङ्कजव तद्दोषव्यासङ्गाभावान्ममत्वविरहादाशंसादोषविकलत्वादेकान्तमेवासौ 'सारयति' प्रख्यातिं नयति साधयतीतियावत् । ननु चैकाकि परिकरोपेतावस्थयोरस्ति विशेषः, प्रत्यक्षेणैवोपलभ्यमानत्वात्, सत्यम्, | अस्ति विशेषो बाह्यतो न त्वान्तरतोऽपि, दर्शयति- ' तथा ' प्राग्वदर्चा- लेश्या शुक्लध्यानाख्या यस्य स तथार्चः, यदिवा अर्चा-शरीरं तच्च प्राग्वद्यस्य स तथार्च:, तथाहि असावशोकाद्यष्टप्रातिहार्योपेतोऽपि नोत्लेकं याति नापि शरीरं संस्कारायतं विदधाति स हि For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy