________________
Shri Maha
r adhana Kendra
www.kobatirth.org
Acharya Shri Kallashsa
yanmandir
स्यानेकान्तपक्षस्य वाऽनाश्रयणादिति । यदिवा यद्वैरं तत्ते श्रमणा बालाः पण्डिता वा न जानन्तीत्येवं वाचं न निसृजेदित्युत्तरेण संवन्धः, किमिति न निसृजेत् ?, यतस्तेऽपि किश्चिज्जानन्त्येव । अपिच तेषां तनिमित्तकोपोत्पत्तेः, यच्चैर्वभूतं वचस्तन्न वाच्यं, यत उक्तम्-"अप्पत्तियं जेण सिया, आसु कुप्पिज वा परो । सबसो तंण भासेजा, भासं अहियगामिणि ॥१॥"इत्यादि ॥२९॥ अप
रमपि वाक्संयममधिकृत्याह-'असेस'मित्यादि, अशेष-कृत्स्नं तत्सांख्याभिप्रायेण अक्षतं नित्यमित्येवं न ब्रूयात् , प्रत्यर्थ प्रति-|| & समयं चान्यथाऽन्यथाभावदर्शनात् स एवायमित्येवंभूतस्यैकत्वसाधकस्य प्रत्यभिज्ञानस्य लूनपुनर्जातेषु केशनखादिष्वपि प्रदर्शनात् , 18
तथा अपिशब्दादेकान्तेन क्षणिकमित्येवमपि वाचं न निसृजेत्, सर्वथा क्षणिकत्वे पूर्वस्य सर्वथा विनष्टत्वादुत्तरस्य निर्हेतुक उत्पादः स्थात् , तथा च सति 'नित्यं सत्त्वमसत्त्वं वाहेतोरन्यानपेक्षणा दिति । तथा सर्व जगहुःखात्मकमित्येवमपि न ब्रूयात् , सुखात्मकस्थापि सम्यग्दर्शनादिभावेन दर्शनात् , तथा चोक्तम्-'तणसंथारनिसण्णोऽवि मुणिवरो भट्टरागमयमोहो। जं पावइ मुत्तिसुहं कत्तोतं चक्कवट्टीवि ? ॥१॥" इत्यादि, तथा वध्याश्चौरपारदारिकादयोऽवध्या वा तत्कर्मानुमतिप्रसङ्गादित्येवंभूतां वाचं खानुष्ठानपरायणः साधुः परव्यापारनिरपेक्षो न निसृजेत् , तथा हि सिंहव्याघ्रमार्जारादीन्परसत्त्वव्यापादनपरायणान् दृष्ट्वा माध्यस्थ्यमवलम्बयेत् , तथा चोक्तम्-"मैत्रीप्रमोदकारुण्यमाध्यस्थ्यानि सत्त्वगुणाधिकक्लिश्यमानाविनेयेष्वि"ति, (तत्त्वा०अ०७मू०६) एवमन्योऽपि ST
१ अप्रीतिकं यया स्यादाशु कुप्यद्वा परः सर्वथा तां न भाषेत भाषामहितगामिनीं ॥ २ तृणसंस्तारकनिषण्णोऽपि मुनिवरो भ्रष्टरागमदमोहः । यत्प्राप्नोति मुक्ति|| सुखं कुतस्तत् चक्रवर्त्यपि ॥ १॥ ३ वध्यकथने हिंसादिकर्मणां अवध्यकथने चौर्यादिकर्मणां । ४ एवमर्थप्रतिवाक्ये समुच्चये इतिवचनात्समुच्चये न बाचं निसृजेत्
माध्यस्थ्यं च अवलम्बयेत् इति ।
For Private And Personal