SearchBrowseAboutContactDonate
Page Preview
Page 769
Loading...
Download File
Download File
Page Text
________________ Shri Maha r adhana Kendra www.kobatirth.org Acharya Shri Kailashsag a nmandir eeeeeeeeeeeeeesex यश्च भक्ष्यमिदमिदं चाभक्ष्यं गम्यमिदमिदं चागम्यं प्रासुकमेषणीयमिदमिदं च विपरीतमित्येवं रागद्वेषसंभवेन समभावरूपस्य | सामायिकस्याभावः कैश्चिच्चोद्यते तत्तेषां चोदनमज्ञानविजृम्भणात् , तथाहि-न तेषां सामायिकवतां साधनां रागद्वेषतया भक्ष्या| भक्ष्यादिविवेकः, अपितु प्रधानमोक्षाङ्गस्य सच्चारित्रस्य साधनार्थम् , अपि च-उपकारापकारयोः समभावतया सामायिकं न पुनभक्ष्याभक्ष्ययोः समप्रवृत्त्येति ॥ २७॥ तदेवं मुक्तिमार्गप्रवृत्तस्य साधुत्वमितरस्य चासाधुत्वं प्रदश्यांधुना च सामान्येन कल्याणपापवतोः सद्भावं प्रतिषेधनिषेधद्वारेणाह-'णत्थि कल्लाण पावे वा इत्यादि, यथेष्टार्थफलसंप्राप्तिः कल्याणं तन्न विद्यते, सर्वा-है। शुचितया निरात्मकत्वाच्च सर्वपदार्थानां बौद्धाभिप्रायेण, तथा तदभावे कल्याणवांश्च न कश्चिद्विद्यते, तथाऽऽत्माद्वैतवाद्यभिप्रायेण 8| 'पुरुष एवेदं सर्व'मितिकृत्वा पापं पापवान् वा न कश्चिद्विद्यते, तदेवमुभयोरप्यभावः, तथा चोक्तम्-"विद्याविनयसंपन्ने, ब्राह्मणे गवि हस्तिनि । शुनि चैव श्वपाके च, पण्डिताः समदर्शिनः ॥१॥" इत्येवमेव कल्याणपापकाभावरूपां संज्ञां नो निवेशयेद्, अपि त्वस्ति कल्याणं कल्याणवांश्च विद्यते, तद्विपर्यस्तं पापं तद्वांश्च विद्यते, इत्येवं संज्ञां निवेशयेत् । तथाहि-नैकान्तेन कल्याणाभावो यो बौद्धरभिहितः, सर्वपदार्थानामशुचित्वासंभवात् , सर्वाशुचित्वे च बुद्धस्याप्यशुचित्वप्राप्तेः, नापि निरात्मानः खद्रव्यक्षेत्रकालभावापेक्षया सर्वपदार्थानां विद्यमानत्वात परद्रव्यादिभिस्तु न विद्यन्ते, सदसदात्मकत्वाद्वस्तुनः, तदुक्तम्-"स्वपरसत्ताव्युदासोपादानापाद्यं हि वस्तुनो वस्तुत्व"मिति । तथाऽऽत्माद्वैतभावाभावात्पापाभावोऽपि नास्ति, अद्वैतभावे हि सुखी दुःखी सरोगो नीरोगः सुरूपः कुरूपो दुर्भगः सुभगोऽर्थवान दरिद्रस्तथाऽयमन्तिकोऽयं तु दवीयान् इत्येवमादिको जगद्वैचित्र्यभावोऽध्यक्षसिद्धोऽपि न स्यात् । यच्च समदर्शित्वमुच्यते ब्राह्मणचाण्डालादिषु तदपि समानपीडोत्पादनतो द्रष्टव्यं, न पुनः कोपादित | सरोगो नागापा हि वस्तुनो विद्यमानत्वात यावा, सर्वाचित For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy