________________
Shri
Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsa
yanmandir
Decemeseeeeeeeeeeeeeeeee
'पिट्टणयाए'त्ति मुष्टिलोष्टादिप्रहारेण तथा 'तथाविधपरितापनतया' बहिरन्तश्च पीडया, ते चासंज्ञिनोऽपि यद्यपि देशकालखभावविप्रकृष्टानां न सर्वेषां दुःखमुत्पादयन्ति तथापि विरतेरभावात्तद्योग्यतया दुःखपरितापक्लेशादेरपतिविरता भवन्ति, तत्सद्भावाच्च तत्प्रत्ययिकेन कर्मणा बध्यन्ते । तदेवं विप्रकृष्टविषयमपि कर्मबन्धं प्रदोपसंजिहीपुराह-इतिरुपप्रदर्शने खलुशब्दो वाक्यालङ्कारे विशेषणे वा, किं विशिनष्टि ? ये इमे पृथिवीकायादयोऽसंज्ञिनः प्राणिनस्तेषां न तर्को न संज्ञा न प्रज्ञा न मनो न वाक् न स्वयं कर्तुं नान्येन कारयितुं न कुर्वन्तमनुमन्तुं वा प्रवृत्तिरस्ति, ते चाहर्निशममित्रभूता मिथ्यासंस्थिता नित्यं प्रश-| ठव्यतिपातचित्तदण्डा दुःखोत्पादनयावत्परितापनपरिक्लेशादेरपतिविरता असंज्ञिनोऽपि सन्तोऽहर्निशं सर्वकालमेव प्राणातिपाते कर्तव्ये तद्योग्यतया तदसंप्राप्तावपि ग्रामघातकवदुपाख्यायन्ते यावन्मिथ्यादर्शनशल्य उपाख्यायन्त इति, उपाख्यानं चासंज्ञिनोऽपि 8 योग्यतया पापकर्मानिवृत्तेरित्यभिप्रायः । तदेवं दर्शिते दृष्टान्तद्वये तत्प्रतिबद्धमेवार्थशेष प्रतिपादयितुं चोद्यं क्रियते, तद्यथाकिमेते सत्त्वाः संज्ञिनोऽसंज्ञिनश्च भव्याभव्यसवनियतरूपा एवाहोस्वित्संज्ञिनो भूखाऽसंज्ञिख प्रतिपद्यन्ते असंज्ञिनोऽपि संशिखमित्येवं चोदिते सत्याहाचार्य:-'सबजोणियावि खलु'इत्यादि, यदिवा सन्त्येवंभूता वेदान्तवादिनो य एवं प्रतिपादयन्ति-'पुरुषः | पुरुषखमश्नुते पशुरपि पशुख मिति, तदत्रापि संज्ञिनः संज्ञिन एव भविष्यन्त्यसंज्ञिनोऽप्यसंज्ञिन इति, तन्मतव्यवच्छेदार्थमाह-॥५॥ 'सबजोणियावी'त्यादि, यदिवा किं संज्ञिनोऽसंज्ञिकर्मबन्धं प्राक्तने सत्येव कर्मणि कुर्वन्ति किंवा नेत्येवमसंज्ञिनोऽपि संज्ञिकर्म| बन्धं प्राक्तने सत्येव कुर्वन्त्याहोखिन्नेत्येतदाशङ्ख्याह-'सव्वजोणियावी'त्यादि, सर्वा योनयो येषां ते सर्वयोनयः संवृतविवृतो
१ संज्ञिसमुश्चयाय । २ अप्रतिविरततासद्भावात् । ३ संज्ञित्वावाप्तौ यद्वद्धं तस्मिन्-वेद्यादिके । यद्वा संज्ञित्वावाप्तिनिमित्ते
sekeeeeeeeeeeeeeeeeeee
For Private And Personal