SearchBrowseAboutContactDonate
Page Preview
Page 739
Loading...
Download File
Download File
Page Text
________________ Shri Mah Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsag a nmandir था-एवं खल्वहं षभिरपि जीवनिकायैः सामान्येन कृत्यं करोमि, न पुनस्तद्विशेषप्रतिज्ञेति, स च तेषु षट्स्वपि जीवनिकाये-1 | वसंयतोऽविरतोऽप्रतिहतप्रत्याख्यातपापकर्मा भवति, एवं मृषावादेऽपि वाच्यं, तद्यथा-इदं मया वक्तव्यमनृतमीदृग्भूतं तु न वक्तव्यं, स च तस्मान्मृपावादादनिवृत्तखादसंयतो भवति, तथाऽदत्तादानमप्याश्रित्य वक्तव्यं, तद्यथा-इदं मयाऽदचादानं ग्राह्यमिदं तु न ग्राह्यमित्येवं मैथुनपरिग्रहेष्वपीति । तथा क्रोधमानमायालोभेष्वपि स्वयमभ्यूह्य वाच्यं । तदेवमसौ हिंसादीन्यकुर्वन्नप्यविरतखात्तत्प्रत्ययिक कर्माश्रवति, तथा चासावविरतिप्रत्ययिक कर्म चिनोतीति, एवं देशकालखभावविप्रकृष्टेष्वपि जन्तुष्वमित्रभूतो सौ भवति तत्प्रत्यायिकं च कर्माचिनोतीति, सोऽयं संज्ञिदृष्टान्तोऽभिहितः । स च कदाचिदेकमेव पृथिवीकार्य व्यापादयति शेषेषु निवृत्तः कदाचिवावेवं त्रिकादिकाः संयोगा भणनीया यावत्सर्वानपि व्यापादयतीति । स चैवं सर्वेषां व्यापादकलेन व्यवस्थाप्यते, सर्व विषयारम्भप्रवृत्तेः, तत्प्रवृत्तिरपि तदनिवृत्तेः, यथा कश्चिद् ग्रामघातादौ प्रवृत्तो यद्यपि च न तेन विवक्षितकाले | केचन पुरुषा दृष्टास्तथाऽप्यसौ तत्प्रवृत्तिनिवृत्तेरभावात्तद्योग्यतया तद्घातक इत्युच्यते, इत्येवं दार्शन्तिकेऽप्यायोज्यम् ॥ |संज्ञिदृष्टान्तानन्तरमसंज्ञिदृष्टान्तः प्रागुपन्यस्तः सोऽधुना प्रतिपाद्यते-संज्ञानं संज्ञा सा विद्यते येषां ते संज्ञिनस्तत्प्रतिषेधादसंज्ञिनो मनसो द्रव्यताया अभावात्तीबातीब्राध्यवसायविशेषरहिताः प्रसुप्तमत्तमूछितादिवदिति, ये इमेऽसंज्ञिनः तद्यथा-पृथिवी-18 | कायिका यावदनस्पतिकायिकाः, तथा षष्ठा अप्येके त्रसाः प्राणिनो विकलेन्द्रिया यावत्संमृच्छिनः पञ्चेन्द्रियाः, ते सर्वेऽप्यसंज्ञिनो | येषां नो 'तर्को' विचारो मीमांसा विशिष्टविमर्शो विद्यते यथा कस्यचित्संझिनो मन्दमन्दप्रकाशे स्थाणुपुरुषोचिते देशे किमयंक १ कर्त्तव्याकर्तव्यभेदानपेक्ष्य बहुत्वं । २ व्यापारयति प्र० । ३ न प्रवृत्तः । ४ उपयोगस्य भावमनोरूपतास्वीकारात् , स चास्ति तेषां । ५ तीव्राः संज्ञिपर्याप्तकस्योत्कटयोगिनः अतीव्रस्तु सूक्ष्मसंपरायाणां । ६ गुणदोषान्वेषणपुरस्सरः ॥ deceaeserceaeeeeeeeeeeee For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy