________________
Shri Ma H
amant
radhana Kendra
www.kchairm.org
Acharya Shri Kailash S मिच्छा दित्सा न दित्सा अदित्सा तया प्रत्याख्यानमदित्साप्रत्याख्यानं-सत्यपि देये सति च संप्रदानकारके केवलं दातुर्दातु-1 मिच्छा नास्तीत्यतोऽदित्साप्रत्याख्यानं, तथा प्रतिषेधप्रत्याख्यानमिदं, तद्यथा-विवक्षितद्रव्याभावाद्विशिष्टसंप्रदानकारकाभावाद्वा | सत्यामपि दित्सायां यः प्रतिषेधस्तत्प्रतिषेधप्रत्याख्यानं, भावप्रत्याख्यानं तु द्विधा-अन्तःकरणशुद्धस्य साधोः श्रावकस्य वा | मूलगुणप्रत्याख्यानमुत्तरगुणप्रत्याख्यानं चेति, चशब्दादेतद् द्विविधमपि नोआगमतो भावप्रत्याख्यानं द्रष्टव्यं, नान्यदिति । साम्प्रतं क्रियापदं निक्षेप्तव्यं, तच्च क्रियास्थानाध्ययने निक्षिप्तमिति न पुनर्निक्षिप्यते । इह पुनर्भावप्रत्याख्यानेनाधिकार इति | दर्शयितुमाह-मूलगुणा:-प्राणातिपातविरमणादयस्तेषु प्रकृतम्-अधिकारः प्राणातिपातादेः प्रत्याख्यानं कर्तव्यमितियावत 'इह' प्रत्याख्यानक्रियाध्ययनेाधिकारो, यदि मूलगुणप्रत्याख्यानं न क्रियते ततोऽपायं दर्शयितुमाह-प्रत्याख्यानाभावेऽनियतत्वाद्यकिश्चनकारितया तत्प्रत्ययिका-तनिमित्ता भवेद्-उत्पद्येत अप्रत्याख्यानक्रिया-सावद्यानुष्ठानक्रिया तत्प्रत्ययिकश्च कर्मबन्धः तनिमित्तश्च संसार इत्यतः प्रत्याख्यानक्रिया मुमुक्षुणा विधेयेति । गतो नामनिष्पन्नो निक्षेपः, अधुना सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारयितव्यं, तच्चेदम्
सुयं मे आउसंतेणं भगवया एवमक्खायं-इह खलु पञ्चक्खाणकिरियाणामज्झयणे,तस्स णं अयमढे पण्णते-आया अपञ्चक्खाणी यावि भवति आया अकिरियाकुसले यावि भवति आया मिच्छासंठिए यावि भवति आया एगंतदंडे यावि भवति आया एगंतबाले यावि भवति आया एगंतमुत्ते यावि भवति आया अवियारमणवयणकायवके यावि भवति आया अप्पडिहयअपचक्खायपावकम्मे यावि भवति,
सूत्र. ६१
For Private And Personal