SearchBrowseAboutContactDonate
Page Preview
Page 717
Loading...
Download File
Download File
Page Text
________________ Shri Ma r adhana Kendra www.kobatirth.org Acharya Shri Kailashsa yamandir वा 'अणुसूयत्ताए'त्ति अपरशरीराश्रिततया परनिश्रया विवर्तन्ते समुत्पद्यन्ते इतियावत्, ते च जीवा विकलेन्द्रियाः सचित्तेषु । मनुष्यादिशरीरेषु यूकालिक्षादिकत्वेनोत्पद्यन्ते,तथा तत्परिभुज्यमानेषु मञ्चकादिष्वचित्तेषु मत्कुणत्वेनाविर्भवन्ति, तथाऽचित्तीभूतेषु | मनुष्यादिशरीरकेषु विकलेन्द्रियशरीरेषु वा ते जीवा अनुस्यूतत्वेन-परनिश्रया कृम्यादित्वेनोत्पद्यन्ते, अपरे तु सचित्ते तेजाकायादौ मूषिकादित्वेनोत्पद्यन्ते, यत्र चाग्निस्तत्र वायुरित्यतस्तदुद्भवा अपि द्रष्टव्याः, तथा पृथिवीमनुश्रित्य कुन्थुपिपीलिकादयो वर्षादावृष्मणा संखेदजा जायन्ते, तथोदके पूतरकाडोल्लणकभ्रमरिकाछेदनकादयः समुत्पद्यन्ते, तथा वनस्पतिकाये पनकभ्रमरादयो जायन्ते । तदेवं ते जीवास्तानि स्खयोनिशरीराण्याहारयन्ति इत्येवमाख्यातमिति ॥ साम्प्रतं पञ्चेन्द्रियमंत्रपुरीपोद्भवानसुमतः प्रतिपादयितुमाह-'एव'मिति पूर्वोक्तपरामर्शः, यथा सचिचाचित्तशरीरनिश्रया विकलेन्द्रियाः समुत्पद्यन्ते तथा तत्संभवेषु मत्रपुरी वान्तादिषु अपरे जन्तवो दुष्टं विरूपं रूपं येषां कुम्यादीनां ते दुरूपास्तत्संभवत्वेन-तद्भावनोत्पद्यन्ते, ते च तत्र विष्ठादौ देहानिर्गतेऽनिर्गत वा समुत्पद्यमाना उत्पन्नाश्च तदेव विष्ठादिकं स्वयोनिभूतमाहारयन्ति, शेषं प्राग्वत् ॥ साम्प्रतं सचित्तशरीराश्रयान् । जन्तून् प्रतिपादयितुमाह-एवं मिति, यथा मूत्रपुरीषादावुत्पादस्तथा तियेक्शरीरेषु 'खुरदुगत्ताए'त्ति चर्मकीटतया समुत्प धन्ते, इदमुक्तं भवति-जीवतामेव गोमहिष्यादीनां चर्मणोऽन्तः प्राणिनः संमृच्छर्यन्ते, ते च तन्मांसचमणी भक्षयन्ति, भक्षयसन्तश्चर्मणो विवराणि विदधति, गलच्छोणितेषु विवरेषु तिष्ठन्तस्तदेव शोणितमाहारयन्ति, तथा अचित्तगवादिशरीरेऽपि, तथा | सचित्ताचित्तवनस्पतिशरीरेऽपि घुणकीटकाः संमृच्छयन्ते, ते च तत्र संमूर्च्छन्तस्तच्छरीरमाहारयन्तीति ॥ साम्प्रतमपूकायं प्रतिपि| पादयिषुस्तत्कारणभूतवातप्रतिपादनपूर्वकं प्रतिपादयतीत्याह Peeroeneweseeeeeeeeeeeee For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy