SearchBrowseAboutContactDonate
Page Preview
Page 715
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jadhana Kendra www.kobatirth.org Acharya Shri Kailashsagars mandir राहारेण वृद्धिमुपगताः स्त्रीपुंनपुंसकानामन्यतमत्वेनोत्पद्यन्ते, ते च जीवा जलचरा गर्भाद्वयुत्क्रान्ताः सन्तस्तदनन्तरं यावद् 'डहर 'त्ति लघवस्तावदप्रस्नेहम् - अप्कायमेवाहारयन्ति आनुपूर्व्येण च वृद्धाः सन्तो वनस्पतिकार्य तथाऽपरांश्च त्रसान् | स्थावरांश्चाहारयन्ति यावत्पश्चेद्रियान प्याहारयन्ति तथा चोक्तम् - " अस्ति मत्स्यस्तिमिर्नाम, शतयोजनविस्तरः । तिमिङ्गिल| गिलोऽप्यस्ति, तद्विलोsप्यस्ति राघव ! ॥ १ ॥” तथा ते जीवाः पृथिवीशरीरं - कर्दमखरूपं क्रमेण वृद्धिमुपगताः सन्त आहारयन्ति, तच्चाहारितं सत्समानरूपीकृतमात्मसात्परिणामयन्ति, शेषं सुगमं यावत्कर्मोपगता भवन्तीत्येवमाख्यातम् | साम्प्रतं | स्थलचरानुद्दिश्याह- 'अहावर 'मित्यादि, अथापरमेतदाख्यातं नानाविधानां चतुष्पदानां तद्यथा - एकखुराणामित्यश्वखरादीनां | तथा द्विखुराणां - गोमहिष्यादीनां तथा गण्डीपदानां - हस्तिगण्डकादीनां तथा सनखपदानां - सिंहव्याघ्रादीनां यथावीजेन यथाव| काशेन सकलपर्याप्तिमवाप्योत्पद्यन्ते ते चोत्पन्नाः सन्तस्तदनन्तरं मातुः स्तन्यमाहारयन्तीति, क्रमेण च वृद्धिमुपगताः सन्तोऽपरेषामपि शरीरमाहारयन्तीति शेषं सुगमं यावत्कर्मोपगता भवन्तीति ॥ साम्प्रतमुरः परिसर्पानुद्दिश्याह- 'नानाविधानां' बहुप्रकाराणामुरसा ये प्रसर्पन्ति तेषां तद्यथा - अहीनामजगराणामाशालिकानां महोरगाणां यथाबीजवेन यथावकाशेन चोत्पच्या ऽण्डजखेन | पोतजखेन वा गर्भान्निर्गच्छन्तीति । ते च निर्गता मातुरूष्माणं वायुं चाहारयन्ति तेषां च जातिप्रत्ययेन तेनैवाहारेण क्षीरादिनेव वृद्धिरुपजायते, शेषं सुगमं यावदाख्यातमिति । साम्प्रतं भुजपरिसर्पानुद्दिश्याह - नानाविधानां भुजाभ्यां ये परिसर्पन्ति तेषां तद्यथा - गोधानकुलादीनां स्वकर्मोपात्तेन यथावीजेन यथावकाशेन चोत्पत्तिर्भवति, ते चाण्डजखेन पोतजखेन चोत्पन्नास्तदनन्तरं मातुरूष्मणा वायुना चाऽऽहारितेन वृद्धिमुपयान्ति, शेषं सुगमं यावदाख्यातमिति । साम्प्रतं खचरानुद्दिश्याह- नानाविधानां For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy