________________
Shri Maha
r adhana Kendra
www.kobatirth.org
Acharya Shri Kailashsaga
n mandir
peo29088888888888
दकं योनिः-उत्पत्तिस्थानं येषां ते तथा, तथोदके संभवो येषां ते तथा, यावत्कर्मनिदानेन संदानितास्तदुपक्रमा भवन्तीति । | ते च तत्कर्मवशगा नानाविधयोनिषूदकेषु वृक्षवेन व्युत्क्रामन्ति-उत्पद्यन्ते । ये च जीवा उदकयोनिका वृक्षलेनोत्पन्नास्ते तच्छरी| रम्-उदकशरीरमाहारयन्ति, न केवलं तदेवान्यदपि पृथिवीकायादिशरीरमाहारयन्तीति । शेषं पूर्ववत् नेयं । यथा पृथिवीयोनिकानां वृक्षाणां चखार आलापका एवमुदकयोनिकानामपि वृक्षाणां भवन्तीत्येवं द्रष्टव्यं, तदुत्पन्नानां त्वपरविकल्पाभावा| देक एवालापको भवति, एतेषां हि उदकाकृतीनां वनस्पतिकायानां तथा अवकपनकशवलादीनामपरस्य प्रागुतस्य विकल्प-| स्थाभावादिति । एते च उदकाश्रया वनस्पतिविशेषाः कलम्बुकाहडादयो लोकव्यवहारतोऽवसेया इति ॥ साम्प्रतमन्येन प्रकारेण वनस्पत्याश्रयमालापकत्रयं दर्शयितुमाह-तद्यथा-पृथिवीयोनिकैवृक्षवृक्षयोनिकैवृक्षस्तथा वृक्षयोनिकैर्मूलादिभिरिति, एवं वृक्षयोनिकैरध्यारुहैस्तथाऽध्यारुहयोनिकैरध्यारुहस्तथाध्यारुयोनिकैर्मूलादिभिरिति । एवमन्येऽपि तृणादयो द्रष्टव्याः। एवमुदक| योनिकेष्वपि वृक्षेषु योजनीयं ॥ तदेवं पृथिवीयोनिकवनस्पतेरुदकयोनिकवनस्पतेश्च भेदानुपदाधुना तदनुवादेनोपसंजिघृक्षुराह-'ते जीवा'इत्यादि, ते वनस्पतित्पन्ना जीवाः पृथिवीयोनिकानां तथोदेकवृक्षाध्यारुहतृणौषधिहरितयोनिकानां वृक्षाणां यावत्स्लेहमाहारयन्तीत्येतदाख्यातमिति, तथा सानां प्राणिनां शरीरमाहारयन्त्येतदवसाने द्रष्टव्यमिति । तदेवं वनस्पतिकायिकानां सुप्रतिपाद्यचैतन्यानां स्वरूपमभिहितं, शेषाः पृथ्वीकायादयश्चवार एकेन्द्रिया उत्तरत्र प्रतिपादयिष्यन्ते, साम्प्रतं त्रसकायस्यावसरः, स च नारकतिर्यमनुष्यदेवभेदभिन्नः, तत्र नारका अप्रत्यक्षत्वेनानुमानग्राह्याः-(तथाहि) दुष्कृतकर्मफलभुजः। १ एवमन्येष्वपि तृणादियोनिकेष्वपि वृक्षेषु योजनीयं, तदेवं प्र. २ तथोदकानां वृक्षा० प्र० ।
For Private And Personal