________________
Aradhana Kendra
www.kabatirth.org
Acharya Shri Kailassa
a nmandie
| अण्डोद्भवाद्या जीवा मातुरुष्मणा विवर्धमाना गर्भस्था एवोदरगतमाहारयन्तो नातीव पीडामुत्पादयन्ति, एवमसावपि वनस्पतिकायिकः पृथिवीस्नेहमाहारयन्नातीय तस्याः पीडामुत्पादयति उत्पद्यमानः, समुत्पन्नश्च वृद्धिमुपगतोऽसदृशवर्णरसाधुपेतखात् बाधा विदध्यादपीति । एवमप्कायस्य भौमस्यान्तरिक्षस्य वा शरीरमाहारयन्ति, तथा तेजसो भसादिकं शरीरमाददति, एवं वाय्वादेरपीति | द्रष्टव्यं, किंबहुनोक्तेन, नानाविधानां त्रसस्थावराणां प्राणिनां यच्छरीरं तत्ते समुत्पद्यमानाः 'अचित्त'मिति खकायेनावष्टभ्य प्रासुकीकुर्वन्ति, यदिवा परिविध्वस्तं पृथिवीकायादिशरीरं किञ्चित्तासुकं किञ्चित्परितापितं कुर्वन्ति, ते वनस्पतिजीवा एतेषां | प्रथिवीकायादीनां तच्छरीरं 'पूर्वमाहारित'मिति तैरेव पृथिवीकायादिभिरुत्पत्तिसमये आहारितमासीत-खकायखेन परिणामितमासीत तदधुनाऽपि वनस्पतिजीवस्तत्रोत्पद्यमान उत्पन्नो वा खचा-स्पर्शनाहारयति, आहार्य च स्खकायखेन विपरिणामयति, विपरिणामितं च तच्छरीरं स्खकायेन सह स्वरूपतां नीतं सत्तन्मयतां प्रतिपद्यते, अपराण्यपि शरीराणि मूलशाखाप्रतिशाखापत्रपुष्पफलादीनि तेषां पृथिवीयोनिकानां वृक्षाणां नानावर्णानि, तथाहि-स्कन्धस्यान्यथाभूतो वर्णो मूलस्य चान्यादृश इति, एवं | यावन्नानाविधशरीरपुद्गल विकुर्वितास्ते भवन्तीति, तथाहि-नानारसवीयविपाका नानाविधपुद्गलोपचयात्सुरूपकुरूपसंस्थानाः तथा दृढाल्पसंहननाः कृशस्थूलस्कन्धाश्च भवन्तीत्येवमादिकानि नानाविधस्वरूपाणि शरीराणि विकुर्वन्तीति स्थितं । केषांचिच्छाक्यादीनां वनस्पत्याद्याः स्थावरा जीवा एव न भवन्तीत्यतस्तत्प्रतिषेधार्थमाह-'ते जीवा' इत्यादि, 'ते' वनस्पतिषूत्पन्ना जीवा नाजीवाः, उपयोगलक्षणखाजीवानां, तथाहि तेषामप्याश्रयोत्सर्पणादिकया क्रिययोपयोगो लक्ष्यते, तथा विशिष्टाहारोपचयापचयाभ्यां शरीरोपचयापचयसद्भावादर्भकवत् जीवाः स्थावराः तथा छिन्नप्ररोहणात्स्वापात्सर्वखगपहरणे मरणादित्येवमादयो हेतबो
For Private And Personal