________________
Shri Main
Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsaga
n mandir
सूत्रकृताङ्गं शीलाङ्काचाीयवृत्तियुतं
१समयाउद्देशः २ नियतिवा
दिमतं
अहिअप्पाऽहियपण्णाणे, विसमंतेणुवागते । स बद्धे पयपासेणं, तत्थ घायं नियच्छइ ॥९॥ स मृगोहितात्मा तथाऽहितं प्रज्ञानं-बोधो यस्य सोहितप्रज्ञानः, स चाहितप्रज्ञानः सन् 'विषमान्तेन' कूटपाशादियुक्तेन प्रदेशेनोपागतः, यदिवा-विषमान्ते-कूटपाशादिके आत्मानमैनुपातयेत् , तत्र चासौ पतितो बद्धश्च तेन कूटादिना पदपाशादीननर्थबहुलानवस्थाविशेषान् प्राप्तः 'तत्र' बन्धने 'घातं' विनाशं 'नियच्छति' प्राप्नोतीति ॥९॥ एवं दृष्टान्तं प्रदर्य सूत्रकार एव दान्तिकमज्ञानविपाकं दर्शयितुमाह
एवं तु समणा एगे, मिच्छदिट्ठी अणारिआ । असंकिआई संकंति, संकिआई असंकिणो ॥१०॥
॥३३॥
ceaeeeeeeeeeeeeeeees
एवमिति यथा मृगा अज्ञानावृता अनर्थमनेकशः प्राप्नुवन्ति, तुरवधारणे, एवमेव 'श्रमणाः केचित् पाखण्डविशेषाश्रिताः एके न सर्वे, किंभूतास्ते इति दर्शयति-मिथ्या-विपरीता दृष्टिर्येषामज्ञानवादिना नियतिवादिनां वा ते मिथ्यादृष्टयः, तथा 'अनार्याः' आराद्याताः सर्वहेयधर्मेभ्य इति आर्याः न आर्या अनार्या अज्ञानावृतबादसदनुष्ठायिन इतियावत् । अज्ञानावृतलं च दर्शयति
'अशङ्कितानि' अशङ्कनीयानि सुधर्मानुष्ठानादीनि शङ्कमानाः, तथा 'शङ्कनीयानि' अपायबहुलानि एकान्तपक्षसमाश्रय-1 प्राणानि, अशङ्किनो मृगा इव मृढचेतसस्तत्तदाऽऽरभन्ते यद्यदनाय संपद्यन्त इति ॥१०॥ शङ्कनीयाशङ्कनीयविपर्यासमाह
१० तेऽणुवायए इति पाठमाश्रित्य ।
For Private And Personal