________________
Shri Ma
r adhana Kendra
www.kobatirth.org
Acharya Shri Kailashsag
a nmandir
eeeeeeeeeeeeeeeee
चतुष्टयस्य सहकारिकारणभावोऽस्ति येन तदभावात्तदभाव इत्युच्यते । तदेवं संसारस्था जीवा विग्रहगतो जघन्येन समयं उत्कृष्टतः समयत्रयं भवस्थकेवली च समुद्घातावस्थः समयत्रयमनाहारकः शैलेश्यवस्थायां खन्तर्मुहूर्त, सिद्धास्तु सादिकमपर्यन्तं कालमनाहारका इति स्थितं ॥ साम्प्रतं प्रथमाहारग्रहणं येन शरीरेण करोति तदर्शयति-ज्योतिः-तेजस्तदेव तत्र वा भवं तैजसं तेन कार्मणेन चाहारयति, तैजसकामणे हि शरीरे आसंसारभाविनी, ताभ्यामेव चोत्पत्तिदेशं गता जीवाः प्रथममाहारं कुर्वन्ति, ततः परमौदारिकमिश्रेण वैक्रियमिश्रेण वा यावच्छरीरं निष्पद्यते तावदाहारयन्ति, शरीरनिष्पत्तौ खौदारिकेण वैक्रियेण वाऽहारयन्तीति स्थितम् ॥ साम्प्रतं परिज्ञानिक्षेपार्थमाह-तत्र नामस्थापनाद्रव्यभावभेदात्परिज्ञा चतुर्धा, तत्रापि नामस्थापने क्षुण्णत्वादनादृत्य द्रव्यपरिक्षां प्रतिपादयन् गाथापश्चाईमाह-'द्रव्यपरिज्ञेति द्रव्यस्य द्रव्येण वा परिज्ञा द्रव्यपरिज्ञा, सा च परिच्छेद्यद्रव्यप्राधान्यात्तस्य च सचित्ताचित्तमिश्रभेदेन त्रैविध्यात्रिविधेति । भावपरिज्ञापि ज्ञपरिज्ञाप्रत्याख्यानपरिज्ञाभेदेन द्विविधेति, शेषस्त्वागमनोआगमज्ञशरीरभव्यशरीरव्यतिरिक्तादिको विचारः शस्त्रपरिज्ञावद्रष्टव्यः । गता निक्षेपनियुक्तिः, अधुना सूत्रानुगमे:स्खलितादिगुणोपेतं सूत्रमुच्चारयितव्यं, तच्चेदम्
सुयं मे आउसंतेणं भगवया एवमक्खायं-इह खलु आहारपरिणाणामज्झयणे, तस्स णं अयमढे-इह खलु पाईणं वा ४ सवतो सद्यावंति च णं लोगंसि चत्तारि बीयकाया एवमाहिति, तंजहा-अग्गबीया मूलबीया पोरवीया खंधबीया, तेसिं च णं अहाबीएणं अहावगासेणं इहेगतिया सत्ता पुढवीजोणिया पुढवीसंभवा पुढवीवुकमा तज्जोणिया तस्संभवा तवक्कमा कम्मोवगा कम्मणियाणेणं तत्थवुकमा णाणा
For Private And Personal