SearchBrowseAboutContactDonate
Page Preview
Page 684
Loading...
Download File
Download File
Page Text
________________ Shri Maha Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsage danmandir २ क्रियास्थानाध्य. सूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाकीयावृत्तिः ॥३४० चैवं व्यवस्थितानामेकः कश्चित्पुरुषस्तेषां संवित्यर्थ ज्वलतामगाराणां प्रतिपूर्णा पात्रीम-अयोमयं भाजनमयोमयेनैव संदंशकेन गृहीला तेषां ढौकितवान्, उवाच च तान् यथा-भोः प्रावादुकाः! पूर्वोक्तविशेषणविशिष्टा इदमङ्गारभृतं भाजनमेकैकं मुहूर्त प्रत्येकं विभृत यूयं, न चेदं (ह) संदंशकं सांसारिकं नापि चाग्निस्तम्भनं विदध्युः नापि च साधर्मिकान्यधार्मिकाणामग्निदाहोपशमादिनोपकारं कुयुरिति, 'ऋजवो मायामकुर्वाणाः पाणिं प्रसारयत, तेऽपि च तथैव कुयुः, ततोऽसौ पुरुषः तद्भाजनं पाणौ समर्पयति, तेऽपि च दाहशङ्कया हस्तं सङ्कोचयेयुरिति, ततोऽसौ तानुवाच-किमिति पाणिं प्रतिसंहरत यूयं ?, एवमभिहितास्ते ऊचुः-दाहभयादिति, एतदुक्तं भवति-अवश्यमग्निदाहभयान कश्चिदम्यभिमुखं पाणिं ददातीत्येतत्परोऽयं दृष्टान्तः । पाणिना दग्धेनापि किं भवतां भविष्यतीति ?, दुःखमिति चेद्यद्येवं भवन्तो दाहापादितदुःखभीरवः सुखलिप्सवः, तदेवं सति सर्वेऽपि जन्तवः संसारोदरविवरवर्तिन एवंभूता एवेत्येवम् 'आत्मतुलया' आत्मौपम्येन यथा मम नाभिमतं दुःखमित्येवं सर्वजन्तूनामित्यवगम्याहिंसैव प्राधान्येनाश्रयणीया, 'तदेतत्प्रमाणं' सैषा युक्तिः 'आत्मवत्सर्वभूतानि, यः पश्यति स| पश्यति । तदेतत् समवसरणं स एव धर्मविचारो यत्राहिंसा संपूर्णा तत्रैव परमार्थतो धर्मः, इत्येवं व्यवस्थिते तत्र ये केचनाविदितपरमार्थाः श्रमणब्राह्मणादयः 'एवं वक्ष्यमाणमाचक्षते परेषामात्मदाढ्योत्पादनायैवं भाषन्ते तथैवमेव धर्म 'प्रज्ञापयन्ति | | व्यवस्थापयन्ति, तथा अनेन प्राण्युपतापकारिणा प्रकारेण परेषां धर्म 'प्ररूपयन्ति' व्याचक्षते, तद्यथा-'सर्वे प्राणा' इत्यादि, यावद्धन्तव्या दण्डादिभिः परितापयितव्या धर्मार्थमरघट्टादिवहनादिभिः परिग्राह्या विशिष्टकाले श्राद्धादौ रोहितमत्स्यादय इव तथाऽपद्रावयितव्या देवतायागादिनिमित्तं बस्तादय इवेत्येवं ये श्रमणादयः प्राणिनामुपतापकारिणी भाषां भाषन्ते (ते) आगामिनि ॥३४॥ For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy