SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ Shri Maha Aradhana Kendra सूत्रकृताङ्गं शीलाङ्काचाययवृतियुतं ॥ ३२ ॥ www.kobatirth.org Acharya Shri Kailashsagars mandir इत्यादि, 'ते' पुनर्नियतिवादमाश्रित्यापि, भूयो विविधं विशेषेण वा 'प्रगल्भिता' धाष्टर्योपगताः परलोकसाधकासु क्रियासु प्रवर्तते, धाष्टर्याश्रयणं तु तेषां नियतिवादाश्रयणे सत्येव पुनरपि तत्प्रतिपन्थिनीषु क्रियासु प्रवर्तनादिति, ते पुनः 'एवमप्युपस्थिताः परलोकसाधकासु क्रियासु प्रवृत्ता अपि सन्तो 'नात्मदुःखविमोक्षकाः' असम्यक्प्रवृत्तत्वान्नात्मानं दुःखाद्विमोचयन्ति । गता नियतिवादिनः ॥ ५ ॥ साम्प्रतमज्ञानिमतं दूषयितुं दृष्टान्तमाह जविणो भिगा जहा संता, परिताणेण वज्जिआ । असंकियाई संकंति, संकिआई असंकिणो ॥ ६ ॥ यथा - 'जविनो' वेगवन्तः सन्तो 'मृगा' आरण्याः पशवः परि—समन्तात् त्रायते - रक्षतीति परित्राणं तेन वर्जिता – रहिताः, | परित्राणविकला इत्यर्थः । यदिवा - परितानं - वागुरादिवन्धनं तेन तर्जिता - भयं ग्राहिताः सन्तो भयोद्भ्रान्तलोचनाः समाकुलीभूतान्तः करणाः सम्यग्विवेकविकला 'अशङ्कनीयानि कूटपाशादिरहितानि स्थानान्यशङ्कार्हाणि तान्येव 'शङ्कन्ते' अनर्थोत्पादकखेन गृह्णन्ति । यानि पुनः 'शङ्कार्हाणि' शंका संजाता येषु योग्यखात्तानि शङ्कितानि — शङ्कायोग्यानि - वागुरादीनि | तान्यशङ्किनः तेषु शङ्कामकुर्वाणाः, 'तत्र तत्र' पाशादिके संपर्ययन्त इत्युत्तरेण संबन्धः ॥ ६॥ पुनरप्येतदेवातिमोहाविष्करणायाहपरियाणिआणि संकंता, पासिताणि असंकिणो । अण्णाणभयसंविग्गा, संपलिंति तहिं तहिं ॥ ७ ॥ परित्रायते इति परित्राणं तञ्जातं येषु तानि तथा, परित्राणयुक्तान्येव शङ्कमाना अतिमूढखाद्विपर्यस्तबुद्धयः, त्रातर्यपि भयमुत्प्रेक्षमाणाः, तथा 'पाशितानि' पाशोपेतानि - अनर्थापादकानि 'अशङ्किनः' तेषु शङ्कामकुर्वाणाः सन्तः अज्ञानेन भयेन च For Private And Personal १ समया ० उद्देशः २ नियतिवा दिमतं ॥ ३२ ॥
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy