________________
Shri Mahavir
Afedhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagar
mandir
Eeeeeeeeeeeeeeeeeee
प्राणिव्यापादनप्रतिज्ञां विधायोद्यच्छत इति दर्शयति । अथैकः कश्चिन्मांसादनेच्छया व्यसनेन क्रीडया कुपितो वा पर्षदो मध्यादभ्युत्थायैवंभूतां प्रतिज्ञां विदध्यात्-यथाऽहम् 'एनं' वक्ष्यमाणं प्राणिनं हनिष्यामीति प्रतिज्ञा कृता पश्चात्तित्तिरादिकं हन्ता भेत्ता छेत्तेति ताच्छीलिकस्तुन् लुट्प्रत्ययो वा, तस्य वा हन्तेत्यादि, यावदात्मानं पापेन कर्मणा ख्यापयिता भवतीति ।। इह चाधर्मपाक्षिकेष्वभिधीयमानेषु सर्वेऽपि प्राणिद्रोहकारिणः कथञ्चिदभिधातव्याः, तत्र पूर्वमनपराधक्रुद्धा अभिहिताः, साम्प्रत
मपराधक्रुद्धान् दर्शयितुमाह-'से एगइओ' इत्यादि, अथैकः कश्चित्प्रकृत्या क्रोधनोऽसहिष्णुतया केनचिदादीयत इत्यादानं४ शब्दादिकं कारणं तेन विरुद्धः समानः परस्यापकुर्यात् , शब्दादानेन तावत्केनचिदाक्रुष्टो निन्दितो वां वाचा विरुध्येत, रूपादा-18
नेन तु बीभत्सं कश्चन दृष्ट्वाऽपशकुनाध्यवसायेन कुप्येत, गन्धरसादिकं खादानं मूत्रेणैव दर्शयितुमाह-अथवा खलस्य-कुथितादिविशिष्टस्य दानं खलस्य वाऽल्पधान्यादेर्दानं खलदानं तेन कुपितः, अथवा सुरायाः स्थालकं-कोशकादि तेन विवक्षितलाभाभावात् कुपितः गृहपत्यादेरेतत् कुर्यादित्याह-स्वयमेवामिकायेन-अग्निना तत्सस्यानि-खलकवर्तीनि शालिव्रीह्यादीनि 'ध्मापयेद'। दहेदन्येन वा दाहयेद्दहतो वाऽन्यान्समनुजानीयादित्येवमसौ महापापकर्मभिरात्मानमुपख्यापयिता भवतीति । साम्प्रतमन्येन प्रकारेण पापोपादानमाह-अथैकः कश्चित्केनचित्तु खलदानादिनाऽऽदानेन गृहपत्यादेः कुपितस्तत्संबन्धिन उष्ट्रादेः स्वयमेवआत्मना परश्वादिना 'घूरीया(रा)ओत्ति जनाः खलका वा 'कल्पयति' छिनत्ति अन्येन वा छेदयति अन्यं वा छिन्दन्तं समनुजा. नीते, इत्येवमसावात्मानं पापेन कर्मणोपाख्यापयिता भवति ॥ किञ्च-अथैकः कश्चित्केनचिनिमित्तेन गृहपत्यादेः कुपितस्तत्संबन्धिनामुष्ट्रादीनां शाला-गृहाणि 'कंटकबोंदियाए'त्ति कण्टकशाखाभिः 'प्रतिविधाय' पिहिला स्थगिता स्वयमेवाग्निना
2999999909999999
For Private And Personal