________________
Shri Mahallo
vadhana Kendra
www.kobatirth.org
Acharya Shri Kailashsag
a nmandir
पद्य' सारमेयपापर्द्धिभावं प्रतिज्ञाय तमेव श्वानं तेन वा 'परं' मृगसूकरादिकं त्रसं प्राणिनं व्यापादयेत् तस्य च हननादिकाः क्रियाः कुर्यादिति ॥ अथैकः कश्चिदनार्यों निर्विवेकः 'सोवणियंतियभावं'ति श्वभिश्चरति शौवनिकः अन्तोऽस्यास्तीत्यन्तिकोऽन्ते वा चरत्यान्तिकः पर्यन्तवासीत्यर्थः, शौवनिकश्चासावान्तिकश्च शौवनिकान्तिक:-क्रूरसारमेयपरिग्रहः प्रत्यन्तनिवासी च प्रत्यन्तनिवासिभिर्वा श्वभिश्चरतीति, तदसौ तद्भाव प्रतिसंधाय-दुष्टसारमेयपरिग्रहं प्रतिपद्य, मनुष्यं वा कञ्चन पथिकमभ्यागत| मन्यं वा मृगसूकरादिकं त्रसं प्राणिनं हन्ता भवति, अयं च ताच्छीलिकस्तृन् लुट्प्रत्ययो वा द्रष्टव्यः, तृचि तु साध्याहारं प्राग्वद्याख्येयं, तद्यथा-पुरुषं व्यापादयेत् तस्य च हन्ता छत्ता इत्यादि, तृन्लुट्प्रत्ययौ प्रागपि योजनीयाविति । तदेवमसौ महाक्रूरकर्मकारी महद्भिः कर्मभिरात्मानमुपख्यापयिता भवतीति ॥ उक्ताऽसदाजीवनोपायभूता वृत्तिः, इदानीं कचित्कुतश्चिनिमित्तादभ्युपगमं दर्शयति
से एगइओ परिसामज्झाओ उद्वित्ता अहमेयं हणामित्तिकट्ट तित्तिरं वा वगं वा लावगं वा कवोयगं वा कविंजलं वा अन्नयरं वा तसं पाणं हंता जाव उवक्खाइत्ता भवइ ॥ से एगइओ केणइ आयाणेणं विरुद्धे समाणे अदुवा खलदाणेणं अदुवा सुराथालएणं गाहावतीण वा गाहावइपुत्ताण वा सयमेव अगणिकाएणं सस्साई झामेइ अन्नेणवि अगणिकाएणं सस्साइं झामावेइ अगणिकाएणं सस्साई झामंतंपि अन्नं समणुजाणइ इति से महया पावकम्मेहिं अत्ताणं उवक्खाइत्ता भवइ ॥ से एगइओ केणइ आयाणेणं विरुद्ध समाणे अदुवा खलदाणेणं अदुवा सुराथालएणं गाहावतीण वा गाहावइपुत्ताण वा
For Private And Personal