________________
Shri Maha Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagyanmandir
| तदेवमेतानि चतुर्दशा प्युद्दिश्य प्रत्येकमादितः प्रभृति विवृणोति – तत्रैकः कचिदात्माद्यर्थं अपरस्य गन्तुर्ग्रामान्तरं किञ्चिद्रव्यजातमवगम्य तदादित्सुस्तस्यैवानुगामुकभावं 'प्रतिसंधाय ' सहगन्तृभावेनानुकूल्यं प्रतिपद्य विवक्षितवञ्चनावसरका लाद्यपेक्षी तमेव गच्छन्तमनुव्रजति, तमेव चाभ्युत्थानविनयादिभिरत्यन्तोपचारैरुपचर्यानुव्रज्य च विवक्षितमवसरं लब्ध्वा तस्यासौ हन्ता दण्डादिभिः तथा छेत्ता खड्गादिना हस्तपादादेः तथा भेत्ता वज्रमुष्ट्यादिना तथा लुम्पयिता केशाकर्षणादिकदर्थनतः तथा विलुम्प यिता कशाप्रहारादिभिरत्यन्तदुःखोत्पादनेन तथा अपद्रावयिता जीविताद्व्यपरोपणतो भवतीत्येवमादिकं कृत्वाऽऽहारमाहारयत्यसौ, | एतदुक्तं भवति - गलकर्तकः कश्चिदन्यस्य धनवतोऽनुगामुकभावं प्रतिपद्य तं बहुविधैरुपायैर्विश्रम्भे पातयित्वा भोगार्थी मोहान्धः साम्प्रतेक्षितया तस्य रिक्थवतोऽपकृत्याहारादिकां भोगक्रियां विधत्ते । इत्येवमसौ महद्भिः क्रूरैः कर्मभिः - अनुष्ठानैर्महापातकभूतैर्वा तीव्रानुभावैर्दीर्घस्थिति कैरात्मानमुपख्यापयिता भवति, तथाहि —- अयमसौ महापापकारीत्येवमात्मानं लोके ख्यापयति, अष्टप्रकारैर्वा कर्मभिरात्मानं तथा बन्धयति यथा लोके तद्विपाकापादितेनावस्थाविशेषेण सता नारकतिर्यङ्नरामररूपतयाऽऽख्यात इति ॥ तदेवमेकः कश्चिदकर्तव्याभिसंधिना परस्य स्वापतेयवतस्तद्वञ्चनार्थमुपचरकभावं 'प्रतिसंधाय ' प्रतिज्ञाय पश्चात्तं नानाविधैर्विनयोपायैरुपचरति, उपचर्य च विश्रम्भे पातयित्वा तद्रव्यार्थी तस्य हन्ता छेत्ता भेत्ता यावदपद्रावयिता भवतीत्येवमसावात्मानं 'महद्भिः' बृहद्भिः पापैः कर्मभिः उपाख्यापयिता भवतीति ॥ अथैकः कश्चित्प्रतिपथेन - अभिमुखेन चरतीति प्रातिपथिकस्तद्भावं प्रतिपद्या परस्यार्थवतस्तदेव प्रातिपथिकत्वं कुर्वन् प्रतिपथे स्थिता तस्यार्थवतो विश्रम्भतो हन्ता छेत्ता यावदपद्रावयिता भवतीत्येवमसावात्मानं पापैः कर्मभिः ख्यापयतीति । अथैकः कश्चिद्विरूपकर्मणा जीवितार्थी 'संधिच्छेदकभाव'
For Private And Personal