________________
Shri Mahavde
radhana Kendra
www.kobatirth.org
Acharya Shri Kailashsag
a
nmandir
सूत्रकृताङ्गे कित्सितकल्पसंज्ञकायां यन्नाभिहितं तदुत्तरेऽभिधीयते, एवमन्यत्रापि छंदश्चित्त्यादावुत्तरसद्भावोऽवगन्तव्यः, तदिहापि पूर्वेण || २ क्रिया२ श्रुतस्क-18 यत्राभिहितं तदनेनोत्तरग्रन्थेन प्रतिपाद्यत इति, चः समुच्चये, णमिति वाक्यालङ्कारे, पुरुषा विचीयन्ते-मृग्यन्ते विज्ञानद्वारेणा- स्थानाध्य० न्वेष्यन्ते येन स पुरुषविचयः पुरुषविजयो वा केषाश्चिदल्पसत्त्वानां तेन ज्ञानलवेनाविधिप्रयुक्तेनानर्थानुवन्धिना विजयादिति,
भौमादिनकीयावृत्तिः । स च विभङ्गवद्-अवधिविपर्ययवद्विभङ्गो-ज्ञानविशेषः पुरुषविचयश्चासौ विभङ्गश्च पुरुषविचयविभङ्गस्तमेवंभूतं ज्ञानविशेषमाख्यास्या
योक्तु फलं ॥३१८॥ मि-प्रतिपादयिष्यामि, यादृशानां चासौ भवति ताल्लेशतः प्रतिपादयितुमाह-'इह खलु' इत्यादि, 'इह' जगति मनुष्यक्षेत्रे
प्रवचने वा नानाप्रकारा-विचित्रक्षयोपशमात् प्रज्ञायतेऽनयेति प्रज्ञा सा चित्रा येषां ते नानाप्रज्ञाः, तया चाल्पाल्पतराल्पतमया चिन्त्यमानाः पुरुषाः षट्स्थानपतिता भवन्ति, तथा छन्द:-अभिप्रायः स नाना येषां ते तथा तेषां, नानाशीलानां तथा नानारूपा दृष्टिः-अन्तःकरणप्रवृत्तिर्येषां ते तथा तेषामिति, तेषां च त्रीणि शतानि त्रिषट्यधिकानि प्रमाणमवगन्तव्यं, तथा नाना रुचिर्येषां ते नानारुचयः, तथाहि-आहारविहारशयनासनाच्छादनाभरणयानवाहनगीतवादित्रादिषु मध्येऽन्यस्यान्याऽन्यस्यान्या रुचिर्भवति तेषां नानारुचीनामिति, तथा नानारम्भाणां कृषिपाशुपाल्यविपणिशिल्पकर्मसेवादिष्वन्यतमारम्भेणेति, तथा नानाध्यवसायसंयुतानां शुभाऽशुभाध्यवसायभाजामिहलोकमात्रप्रतिबद्धानां परलोकनिष्पिपासानां विषयतृषितानामिदं नानाविधं || पापश्रुताध्ययनं भवति, तद्यथा-भूमौ भवं भौम-निर्घातभूकम्पादिकं, तथोत्पात-कपिहसितादिकं, तथा स्वप्नं-गजवृषभसिंहादिकं, ||| ॥३१८॥ तथाऽन्तरिक्षम्-अमोघादिकं, तथा अले भवमानम्-अक्षिबाहुस्फुरणादिकं, तथा खरलक्षणं-काकखरगम्भीरखरादिकं, तथा लक्षणं-यवमत्स्यपद्मशङ्खचक्रश्रीवत्सादिकं व्यञ्जन-तिलकमषादिकं, तथा स्त्रीलक्षणं रक्तकरचरणादिकं, एवं पुरुषादीनां
aeeeeeeeeeeeeeee
9999999
For Private And Personal