SearchBrowseAboutContactDonate
Page Preview
Page 637
Loading...
Download File
Download File
Page Text
________________ Shri March Aradhana Kendra www.kobatirth.org Acharya Shri Kailas Gyanmandir Hमात्मार्थ संघृतस्यानगारपर्यापथिकादिभिः पञ्चभिः समितिभिर्मनोवाक्कायैः समितस्य तथा तिसभिर्गुप्तिभिर्गुप्तस्य, पुनर्गुप्तिग्रह-I णमेताभिरेव गुप्तिभिर्गुप्तो भवतीत्यस्वार्थस्याविर्भावनायात्यादरख्यापनार्थ वेति । तथा गुप्तेन्द्रियस्य नवब्रह्मचर्यगुप्युपेतब्रह्मचारिणश्च सतः, तथोपयुक्तं गच्छतस्तिष्ठतो निषीदतस्वक्वर्तनां कुर्वाणस्य तथोपयुक्तमेव वस्त्रं पतद्ग्रहं कम्बलं पादपुञ्छनकं वा गृह्णतो || निक्षिपतो वा यावच्चक्षुःपक्ष्मनिपातमप्युपयुक्तं कुर्वतः सतोऽत्यन्तमुपयुक्तस्यापि अस्ति-विद्यते विविधा मात्रा विमात्रा तदेवंविधा । सूक्ष्माक्षिपक्ष्मसंचलनरूपादिकेर्यापथिका नाम क्रिया केवलिनाऽपि क्रियते, तथाहि सयोगी जीवो न शक्नोति क्षणमप्येकं निश्चलः | स्थातुम् , अग्निना ताप्यमानोदकवत्कार्मणशरीरानुगतः सदा परिवर्तयन्नेवास्ते, तथा चोक्तम्-"केवली णं भंते ! अस्सि समयसि || जेसु आगासपएसेसु" इत्यादि । तदेवं केवलिनोऽपि सूक्ष्मगात्रसंचारा भवन्ति, इह च कारणे कार्योपचाराचया क्रियया यध्यते कर्म नस्य च कर्मणो या अवस्थास्ताः क्रियाः, ता एव दर्शयितुमाह-सा पढमसमये' इत्यादि, यासावकषायिणः क्रिया तया यवध्यते कर्म तत्प्रथमसमय एव बद्धं स्पृष्टं चेतिकृया तक्रियैव बद्धस्पृष्टेत्युक्ता, तथा द्वितीयसमये वेदितेत्यनुभूता तृतीयसमये || निर्जीणा, एतदुक्तं भवति-कर्म योगनिमिचं बध्यते, तत्स्थितिश्च कषायायत्ता, तदभावाच न तस्य सांपरायिकस्येव स्थितिः, किंतु योगसद्धावाद्वध्यमानमेव स्पृष्टतां-संश्लेषं याति, द्वितीयसमये बनुभूयते, तच्च प्रकृतितः सातावेदनीयं स्थितितो द्विसमयस्थितिकमनुभावतः शुभानुभावं अनुत्तरोपपातिकदेवसुखातिशायि प्रदेशतो बहुप्रदेशमस्थिरबन्धं बहुव्ययं च, तदेवं सेयोपथिका क्रिया १ केवली भदन्त ! बस्मिन् समये येष्वाकाशप्रदेशेषु । २ बध्यमानस्य बद्धलादाद्यस्य गणना तृतीयस्य तु निजार्यमाणस्य निर्जीर्णलान स्थितौ गणनेति उत्तमित्थं, | भाष्ये तत्वार्थस्य तु एकसमयस्थितिकमिति । For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy