________________
Shri Maha
r adhana Kendra
www.kobatirth.org
Acharya Shri Kailashsag
a nmandir
सूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाकीयावृत्तिः
२ क्रियास्थानाध्य० मायाप्रत्ययिकं ११
॥३१३॥
seeeeeeeeeeeeee
रियं दंडं छाएति, माई असमाहडसुहलेस्से यावि भवइ, एवं खलु तस्स तप्पत्तियं सावजंति आहिज्जइ, एकारसमे किरियट्ठाणे मायावत्तिएत्ति आहिए ॥ सूत्रं २७॥
अथापरमेकादशं.क्रियास्थानमाख्यायते, तद्यथा-ये केचनामी भवन्ति पुरुषाः, किंविशिष्टाः-गृढ आचारो येषां ते गृढाचा रा:-गलकर्तकग्रन्थिच्छेदादयः, ते च नानाविधैरुपायैर्विश्रम्भमुत्पाद्य पश्चादपकुर्वन्ति, प्रद्योतादेरभयकुमारादिवत् । ते च मायाशीलखेनाप्रकाशचारिणः, तमसि कषितुं शीलं येषां ते तमसिकापिणस्त एव च कापिकाः, पराविज्ञाताः क्रियाः कुर्वन्तीत्यर्थः । ते च वचेष्टयैवोलूकपत्रवल्लघवः, कौशिकपिच्छवल्लघीयांसोऽपि पर्वतवद्गुरुमात्मानं मन्यन्ते, यदिवाऽकार्यप्रवृत्तेः पर्वतवन्नो स्तम्भयितुं शक्यन्ते, ते चाऽयदेशोत्पन्ना अपि सन्तः शाख्यादात्मप्रच्छादनार्थमपरभयोत्पादनार्थ चानार्यभाषाः प्रयुञ्जते, परन्यामोहार्थ स्वमतिपरिकल्पितभाषाभिरपराविदिताभि पन्ते, तथाऽन्यथाव्यवस्थितमात्मानम् अन्यथा-साध्वाकारेण मन्यन्ते व्यवस्थापयन्ति च, तथाऽन्यत्पृष्टा मातृस्थानतोऽन्यदाचक्षते, यथाऽऽम्रान् पृष्टाः केदारकानाचक्षते, वादकाले वा कश्चिन्नाथ (व्याय) वादितया व्याकरणे प्रवीणस्त(णं तर्कमार्गमवतारयति, यथा वा 'शरदि वाजपेयेन यजेते'त्यस्य वाक्यस्यार्थ पृष्टस्तदर्थानभिज्ञःकालातिपातार्थ | शरत्कालं व्यावर्णयति, तथाऽन्यसिंश्चार्थे कथयितव्येऽन्यमेवार्थमाचक्षते ॥ तेषां च सर्वार्थविसंवादिनां कपटप्रपञ्चचतुराणां विपाकोद्भवनाय, दृष्टान्तं दर्शयितुमाह-'से जहे त्यादि, तत् यथा नाम कश्चित्पुरुषः संग्रामादपक्रान्तोऽन्तः-मध्ये शल्यं| तोमरादिकं यस्य सोऽन्तःशल्यः, स च शल्यघट्टनवेदनाभीरुतया तच्छल्यं न स्वतो 'निर्हरति अपनयति-उद्धरति नाप्यन्येनोद्वारयति, नापि तच्छल्यं वैद्योपदेशेनौषधोपयोगादिभिरुपायैः 'प्रतिध्वंसयति' विनाशयति, अन्येन केनचित्पृष्टो वाऽपृष्टो वा
elesedeeseeeeeeeeeeeeeeee
॥३१
३॥
For Private And Personal