SearchBrowseAboutContactDonate
Page Preview
Page 601
Loading...
Download File
Download File
Page Text
________________ Shri Maha Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsageryri yanmandir भावात् कुड्यादिदेशनत इति, एवं प्रकर्षेण ज्ञापयन्ति हेतूदाहरणादिभिः, एवं प्ररूपयन्ति नामादिभिर्यथा सर्वे प्राणा न हन्तव्या | इत्यादि, 'एष धर्मः' प्राणिरक्षणलक्षणः प्राग्व्यावर्णितखरूपो 'ध्रुवः' अवश्यंभावी 'नित्यः क्षान्त्यादिरूपेण शाश्वत इत्येवं च 'अभिसमेत्य केवलज्ञानेनावलोक्य 'लोक' चतुर्दशरज्ज्वात्मकं 'खेदज्ञैः तीर्थकृद्भिः 'प्रवेदितः कथित इत्येवं सर्व ज्ञाखा स भिक्षुर्विदितवेद्यो विरतः प्राणातिपातायावत्परिग्रहादिति, एतदेव दर्शयितुमाह-'णो दंत' इत्यादि, इह पूर्वोक्तमहाव्रतपा लनार्थमनेनोत्तरगुणाः प्रतिपाद्यन्ते, तत्र अपरिग्रहो-निष्किञ्चनः सन् साधुनों 'दन्तप्रक्षालनेन' कदम्बादिकाष्ठेन दन्तान प्रक्षा18 लयेत् तथा नो 'अञ्जनं' सौवीरादिकं विभूषार्थमक्ष्णोर्दद्यात् तथा नो वमनविरेचनादिकाः क्रियाः कुर्यात् तथा नो शरीरस्य | खीयवस्त्राणां वा धूपनं कुर्यात् नापि कासाद्यपनयनार्थ तं धूमं योगवर्तिनिष्पादितमापिबेदिति ॥ साम्प्रतं मूलगुणोत्तरगुणप्रस्तावमुपसंजिघृक्षुराह-(ग्रन्थाग्रं९०००)स मूलोत्तरगुणव्यवस्थितो भिक्षुर्नास क्रिया-सावद्या विद्यते इत्यक्रिया, संवृतात्मकतया सांपरायिककर्माबन्धक इत्यर्थः, कुत एवंभूतः यतः प्राणिनामलूपक:-अहिंसकोऽनुपमर्दक इत्यर्थः, तथा न विद्यते क्रोधो असत्यकोधा, एवममानोऽमायोज्लोभः कषायोपशमाचोपशान्तः-शीतीभूतस्तदुपशमाच परिनिर्वृत इव परिनिर्वृतः एवं तावदैहिकेभ्यः कामभोगेभ्यो विरतः पारलौकिकेभ्योऽपि विरत इति दर्शयति-'नो आसंसं इत्यादि, 'नो' नैवाशंसां पुरस्कृत्य ममानेन विशिष्टतपसा जन्मान्तरे कामभोगावाप्तिभविष्यतीत्येवंभूतामाशंसां न पुरस्कुर्यादिति, एतदेव दर्शयितुमाह-'इमेण में' इत्यादि, असिन्नेव जन्मन्यमुना विशिष्टतपश्चरणफलेन दृष्टेनामोषध्यादिना तथा पारलौकिकेन च श्रुतेनाद्रकधम्मिल्लब्रह्मदत्तादीनां विशिष्टतपश्चरणफलेन, तथा 'मएण वत्ति 'मन ज्ञाने' जातिसरणादिना ज्ञानेन, तथाऽऽचार्यादेः सकाशाद्विज्ञान-अवगतेन Reacheeeeeeeeeeeeeeeeeeeeeeeee For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy